अंशुलकुमारदुबे
राजकीय- वरिष्ठ- उपाध्याय- संस्कृत- विद्यालये वार्षिकोत्सवस्यायोजनं जातम्। अस्मिन् आयोजने अध्यक्षत्वेन् उपस्थिताः।
आसन् राजकीय- आचार्य- संस्कृत- महाविद्यालय- बौंली इत्यस्य प्राचार्याः डा. धर्मसिंहगुर्जरः, मुख्यातिथिः रूपेण ओमजी-जोशी, स्थानीय पंचायतस्य सरपंचमहोदयाः, विशिष्टातिथिरूपेण गोविंदवंसलः खण्ड- शिक्षाधिकारी- महोदयाः, अस्मिन् कार्यक्रमे स्थानीयछात्रैः पैरोडीगीतानां प्रस्तुतिः, एकलनृत्यप्रस्तुतिः, प्रधानाचार्येण वेदप्रकाशमिश्रवर्येण विद्यालयस्य वार्षिक- प्रतिवेदनं प्रस्तुतम्, प्रतिवेदने विद्यालयस्य उपलब्धीनां विषये यथा संस्थायाः प्रतिभाशालीछात्राः पूर्वच्छात्राः, सेवारतच्छात्राः आदिविषयेषु वर्णित: कार्यक्रमे भामाशाहानां सम्मानं, अभिभावकानां सम्मानं, विविधप्रस्तुतिषु प्रतिभागीनां सम्मानम् आचरितम्।
अंतिमे वरिष्ठोपाध्यायच्छात्राणां सौप्रस्थानिक- समारोहस्यायोजनं कृतम्। अस्यायोजनस्य संचालनं प्राध्यापकः अंशुलकुमारदुबेवर्येण कृतम्। हिमसंस्कृतवार्ता