-उत्तराखण्डस्य समाजस्य विशेषपारंपरिकोत्सव: (फूलदेई) पुष्पदेहली वर्तते- प्रधानाचार्य: रमाकान्तकुकरेती।
कुलदीप मैन्दोला
देहरादून। कालिदासस्य प्रसिद्ध: कण्वाश्रम: सर्वविदितोऽस्ति। यो हि मालिनीतीरे आधुनिकसमयेऽपि नाममात्रेण दृश्यते। ऋषिकण्वस्य आश्रमस्य स्वरूपं यद्यपि यथावर्णने प्राप्यते तथा दृष्टिगोचर: न भवति। परन्तु कण्वपालिताया: शकुन्तलाया: संस्कृति: उत्तराखण्डे द्रष्टुं शक्यते।
शकुन्तलाद्वारा या प्रकृतिपूजा आराधिता सा लघुबालेषु अद्यापि द्रष्टुं शक्यते। तयानुसारेण एव ज्ञायते यत् वसन्ते समागतानां पुष्पाणां सुगन्ध: सर्वान् मोदयति। चैत्रागमने लघुबाला: मन्दिरसदृशंप्रतिगृहस्य देहल्यां सुगन्धितजीवनस्य मंगलभावनया च शुभकामनया सह पुष्पाणि अर्पयन्ति। गृहे गृहे मिष्टान्नं जना: बालेभ्य: प्रयच्छन्ति। एषा संस्कृति: उत्तराखण्डे पुष्फदेहली (फुलदेई) नाम्ना कथ्यते।
परम्परानुसारेण पौड़ी जनपदस्य कण्वनगरीकोटद्वारे अटल- उत्कृष्ट- राजकीयकॉलेज- कण्वघाटीस्थले प्रधानाचार्यस्य रमाकांतकुकरेतीवर्यस्य निर्देशने (फूलदेई) पुष्पदेहली उत्सव: समायोजित:। प्रधानाचार्येण उत्सवस्य महत्वविषये प्रोक्तं यत् उत्तराखण्डस्य समाजस्य विशेषपारंपरिकोत्सव: (फूलदेई) पुष्पदेहली वर्तते। चैत्रस्य संक्रांति अर्थात् पुष्पसंक्रान्ति: विद्यते। संक्रांतित: प्रारभ्य पूर्णमासपर्यन्तं गृहदेहल्यां पुष्पार्पणं भवति।
गढ़वाले अयम् उत्सव: (फूलसंग्राद) पुष्पसंक्रान्ति: ‘कुमाऊं’-क्षेत्रे पुष्पदेहली (फूलदेई) नाम्ना उच्यते। पुष्पार्पणकर्तार: बाला: फुलारी इति नाम्ना जना: उच्चरन्ति। उत्सवेऽस्मिन् दिवसे प्रसिद्धगीतं “फूलदेई छम्मा देई, दैणीद्वार भर भकार” इति श्रूयते।
अवसरेऽस्मिन् बी.एड. प्रशिक्षुषु प्रियंका, आयुषी, दीपिका, प्रेरणा, शिक्षक: रघुवीरसिंहगुसाईं, दिवाकरप्रसादपरिंदियाल:, मालिनीवेलीत: डॉ. हेमलतानेगी, सोमेशप्रतापसिंह: च आदय: उपस्थिता: आसन्।हिमसंस्कृतवार्ता: