नवदेहली। सूचना-प्रसारण-मन्त्री अनुरागठाकुर: अद्य उक्तवान् यत् सम्प्रति प्रसारभारती षड्त्रिंशत् दूरदर्शन- प्रवाहिका: प्रचालयति, यस्मिन् एका प्रवाहिका अन्ताराष्ट्रिय-स्तरीया अस्ति, सप्त प्रवाहिका: राष्ट्रियस्तरीया: सन्ति, एकविंशतिश्च क्षेत्रीया: प्रवाहिका: सन्ति एता: सर्वा: अपि प्रवाहिका: अहर्निशं प्रचलन्ति, अन्याः सप्त प्रवाहिकाश्च निर्धारित अल्प कालाय एव प्रचलन्ति।
लोकसभायां प्रदत्ते लिखित उत्तरे सः उक्तवान् यत् प्रसार-भारती एकपञ्चाशत् शैक्षिक-प्रवाहिकाः अपि प्रचालयति, एताः सर्वाः अपि प्रवाहिका: निःशुल्कतया प्रसार्य-माणासु डी टी एच इति सेवासु उपलभ्यन्ते । तेन एतदपि उक्तम् यत् डी डी किसान इति प्रवाहिका पूर्णतः कृषकेभ्यः समर्पिता अस्ति।विश्वस्य वृत्तान्तः