लखनऊ। उत्तरप्रदेशे सद्यसमापित निर्वाचने यद्यपि आदित्यनाथस्य नेतृत्वे द्वितीयवारं भाजपा-शासनं सुरक्षितं परं केषांचित् वरिष्ठनेतृणां पराजय-वृत्तान्तः बाधते नूनम्। तथापि मन्त्रीमण्डले एते स्थानप्राप्ताः स्युः। विशेषतः उपमुख्यमन्त्री केशवप्रसाद मौर्यस्य कृते वरिष्ठ-मन्त्रीपदं सुनिश्चितं मन्यते।
दिलीनगरे केन्द्रीयमन्त्रिभिः सह सविशेषचर्चासत्रे एतत् निर्धारितं यत् विश्वासमतं प्राप्तुं पराजितानां तोषीकरणं नूनमावश्यकम्।
अष्टादशदिनांके राज्यपालाय राज्यसर्वकारस्य संरचनार्थे अध्यादेशपत्रं दास्यते। राज्ये त्रयः उपमुख्यमन्त्रिणः स्युः येषु महिलानां कृते स्थानानि संरक्षितानि एव। स्वतंत्रदेवसिंहः केशवप्रसाद मौर्यः, सुरेश खान्नावत् नेतारः मन्त्रीपदानि लप्स्यन्ते।