डॉ. नरेन्द्रराणा
नवदेहल्यां भारत- जापनयोः मध्ये चतुर्दश- भारत- जापान- शिखर- वार्ता सम्पन्ना। अस्यां वार्तायां भारतस्य प्रधानमन्त्री नरेन्द्रमोदीवर्यः, जापानस्य प्रधानमन्त्री फूमियो किशिदा च उपस्थितौ। अवधेयमस्ति यत् द्वयोः देशयोः मध्ये विकासस्य, स्वच्छोर्जायाः, सुरक्षादिषु षट् सन्धिपत्रेषु सहमतिः संजाता।
नरेन्द्रमोदिना कथितं यत् जापानदेशः आगामिषु पञ्चवर्षेषु भारते विंशतिसहस्राधिक-त्रिलक्षकोटि- रूप्यकाणां निवेशं करिष्यति। एतदतिरिक्तं तेनोक्तं यत् भारत- जापानयोः मध्ये विहितः सहयोगः न केवलं देशद्वयस्य कृते, अपितु एशिया- प्रशान्तक्षेत्राय अपि हितप्रदः भविष्यति।