विनायकशर्मा
संयुक्त राज्य अमेरिका रूस – यूक्रेन युद्धस्य मध्ये एकः राजनयिक संघर्षे संलग्नः अस्ति, इदानीमपि अन्तरिक्ष- उत्साही देशानां मध्ये सहयोगस्य आशा निर्मिता अस्ति। अमेरिकी अन्तरिक्षयात्री मार्क-वन्देहेई मार्चमासस्य 30 दिनांके अन्तार्राष्ट्रीयम् अन्तरिक्षस्थानकं प्रति (आईएसएस) स्वस्य अभूतपूर्वाया: स्थापनाया: (रिकार्ड-सेटिंग) पश्चात् पृथ्वीं प्रति प्रत्यावर्तयितुं रूसी अन्तरिक्षयानं प्रति गमिष्यति।
वन्दे हेई इत्यनेन अमेरिकी- अन्तरिक्षयात्रिणा सर्वाधिकं कालं यावत् एकल-अन्तरिक्ष-यानस्य कीर्तिमान्-स्थापितम्, यः पूर्वम् अन्तरिक्ष यात्री स्कॉट केली द्वारा निर्धारितः आसीत्। यः 340 दिवसं यावत् सूक्ष्मे गुरुत्वे (माइक्रोग्रेविटी) आसीत्। यदा वन्दे हेई- अस्य मासस्य अन्ते प्रत्यागमिष्यति।
तदा सः 350 दिवसानां यात्रां कृत्वा अन्तरिक्षे भविष्यति, पृथिवीं परितः 5,680 परिक्रमाः पूर्णा: कृत्वा 150 मिलियन मील- इत्यस्मात् अधिकस्य दूरीं पूर्णं करिष्यति।