
रजनी
कुरुक्षेत्र, हरियाणा। प्रान्तस्य योजनानुसारं जूनमासे प्रशिक्षणवर्गः(1-12 जून 2022) अम्बालायां निश्चितःअस्ति।वर्गस्य योजनाः कर्तुम् अद्य अम्बालाजनपदस्य कार्यकर्तॄणाम् एका गोष्ठी नन्दलालगीताविद्यामन्दिरं तेपला इत्यस्मिन् विद्यालये आयोजिता।तस्मिन्नेव विद्यालये प्रशिक्षणवर्गस्य स्थानं निश्चितम्।
वर्गस्य सम्यक् सञ्चालनाय आवासभोजनचिकित्साजलविद्युदादीनां विभागां चर्चां कृत्वा तेषां प्रमुखाः अपि घोषिताः।श्री ईशमसिंहमहोदयःसर्वव्यवस्थाप्रमुखः कृतः।
प्रान्तस्य उपाध्यक्षः डॉ. सोमेश्वरदत्तमहोदयःवर्गस्य पालकरूपेण कार्यं करिष्यति। वर्गस्य सफलतायै धनसंग्रहविभागः,प्रचारविभागः,सम्पर्कविभागःइत्येषामपि रचना कृता। गोष्ठ्यां प्रान्तमन्त्रिणः डॉ. जोगिन्द्रमहोदयस्यापि मार्गदर्शनं प्राप्तम्।