नरेश मलोटिया
अद्यत्वे फीफा- विश्व- चषक- पादकन्दुक- क्रीडा- शृङ्खलायाः कृते योग्यता-प्राप्यर्थं प्रतिस्पर्धा: जायमाना: सन्ति, यत्र विश्वस्य विविधाः पादकन्दुक- क्रीडासमूहाः भागं गृह्णन्ति।
तत्रैव कनाडा-देशस्य पादकन्दुक- क्रीडासमूहेन “जमैका” इत्यस्य पादकन्दुक- क्रीडासमूहं पराजित्य 36 (षड्त्रिंशत्) वर्षानन्तरं फीफा- विश्व- चषक- शृङ्खलायाः कृते योग्यता प्राप्ता।
विदितं स्यात् यत् एतत् द्वितीयं वारं वर्तते, यदा कनाडादेशस्य पादकन्दुक- क्रीडासमूह: फीफा- विश्व- चषक- शृङ्खलायां क्रीडिष्यति।