स्वर्गीय श्रीमन्त: सुन्दरलाल शास्त्रिमहाभागेभ्य: तेषां प्रशंसकै: भावपुष्पै: श्रद्धांजल्य: प्रदत्ता:
अमित ओली
हिमाचल प्रदेश: । करसोगत:
-स्वर्गीय श्रीमन्त: सुन्दर लाल: शास्त्रिवर्या: संस्कृतज्ञानां मध्ये मूधन्यं स्थानमवधारयन्ति । स्वक्षेत्रे संस्कृत मातु: प्रचाराय प्रसाराय च भवद्भि: संस्कृत महाविद्यालयस्य स्थापनामकुर्वन्। इतोsपि देशसेवायै विविधानि कार्यान्यपि अकुर्वन्। भवतां जीवनस्य ध्येय: सर्वदा “स्वस्मै स्वल्पं समाजाय सर्वस्ममिति आसीत्।
तस्मात् सत्यमेवोक्तं खलु शास्त्रज्ञै: नास्त्यत्रसन्देहावसर:
यत्- विद्वत्वं च नृपवत्वं च नैव तुल्यं कदाचन
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते। द्विचत्वारिंशततमे वयसि (४ अप्रैल २०१२) तमे वर्षे भवन्त: संस्कृत मातु: सेवां कुर्वन्त: ब्रह्मलोकं प्राप्तवन्त:।
Online संस्कृतशिक्षणम् इति फेसबुक समूहे गतसोमवासरे परमपूज्य ब्रह्मलीन स्व. श्री सुन्दरलाल शास्त्री महाभाग्यशाली (हिमाचल प्रदेशत:) पुण्य स्मृत्यां आयोजित-प्रतियोगितायाः परिणामः आयोजकैः घोषितः । अस्यां प्रतियोगितायां प्रथमा विजयिनी पश्चिमवङ्गात् पापिया गँडाइ, द्वितीय: विजेता उत्तराखण्डात् मोहित शर्मा च तृतीया विजयिनी उत्तर प्रदेशात् स्वाति शाश्वत: अभवन् ।
अस्या: प्रतियोगिताया: आयोजकौ गुजरातत: जगदीश: डाभी, विश्वस्य वृत्तान्त: च स्त: । सहायका: अमित: ओली, डॉ. नरेन्द्र: राणा, शिवा शर्मा च सन्ति । तथा अस्यां प्रतियोगितायां प्रायोजक: हिमाचल प्रदेशत: पियूष कान्त: शर्मा महोदय: विजेतृभ्यः पुरस्कार-स्वरुपेण श्रीमद्भगवद्गीता पुस्तकं प्रदतम् ।