- संस्कृतभाषा सर्वभाषाणां जननी अस्ति अत: तां प्रत्येकव्यक्ति: शिक्षयितुं प्रारम्भं कुर्यात्- डा.माधुरी।
कुलदीपमैन्दोला
रुद्रप्रयाग, उत्तराखण्ड। राजकीयमहाविद्यालये जखोलीरुद्रप्रयागे संस्कृतविभागस्य तत्वाधाने दसदिवसीय- संस्कृत- सम्भाषणशिविरस्य कार्यक्रम: प्रारभत्। शिविरस्य शुभारम्भ: महाविद्यालयस्य प्राचार्या डॉ. (कु) माधुरी, वरिष्ठप्राध्यापक- इतिहासविभागाध्यक्षश्च डॉ० देवेशचन्द्राद्वारा दीपप्रज्वालनेन अभवत्।
कार्यक्रमे स्ववक्तव्ये माधुरीवर्यया प्रोक्तं यत् संस्कृतभाषा सर्वभाषाणां जननी अस्ति अत: तां प्रत्येकव्यक्ति: अध्येतुं प्रारम्भं कुर्यात्। तत्रैव डॉ० देवेशचन्द्रापि सम्बोधने प्रोक्तं यत् संगणकक्षेत्रे संस्कृतभाषा सर्वोपयोगिनी विद्यते। तेन कार्यक्रमस्य कृते शुभकामना: प्रदत्ता: स्वयमेव शिक्षकै: पूर्वशिक्षणवार्तामपि प्रशंसितः। कार्यक्रमे विद्यार्थिभि: सरस्वतीवन्दनाया: वाचनं कृतम्।
कार्यक्रमस्य संचालनं कुर्वन्ती संस्कृतविभागाध्यक्षा डॉ. भारती कन्नौजिया उपस्थितेषु संस्कृतमहत्त्वं उक्तवती यत् सर्वविषयाणां अध्येतृणां कृते शिविरे प्रतिभागं कर्तुं निवेदितवती। शिविरकार्यक्रमे प्रथमदिवसे सरलसंस्कृत- परिचयेन संस्कृतसम्भाषणस्य आरम्भ: अभवत्। अवसरेऽस्मिन् महाविद्यालयस्य सर्वविभागाध्यक्षाणां च विद्यार्थिनांम् उपस्थिति: प्रशंसनीया आसीत्।