डॉ.अमनदीपशर्मा
शिमला। आम-आदमी-दलस्य राष्ट्रीयः संयोजकः दिल्लीप्रान्तस्य मुख्यमन्त्रिणः गतदिवसे हिमाचलप्रदेशस्य मण्ड्यां जनसम्मेलनं जातम्। सम्मेलनेऽस्मिन् पंजाबप्रान्तस्य नवनिर्वाचितः मुख्यमन्त्री भगवन्तमानसिंहः अपि उपस्थितः आसीत्।
जनसम्मेलनेऽस्मिन् पंजाब-हिमाचलात् अनेकैः जनैः भागं ग्रहीतम्। जनान् सम्बोधयन् केजरीवालेनोक्तं आप-दलस्य सर्वकारः आगामीनिर्वाचनप्रक्रियायां हिमाचले भागं ग्रहीष्यति। तेनोक्तं यत् आपदलेन गतद्विसप्ताहाभ्यन्तरे पञ्जाबराज्यम् भष्ट्राचारमुक्तं कृतम् किञ्च दिल्ल्यामपि अस्माकं सुशासनं प्रचलति। तेनोक्तं यत् वयं राजनीतिं न जानीम, केवलं कार्यकरणेव विश्वासं कुर्म।