डॉ.अमनदीपशर्मा
चैत्रशुक्लप्रतिपदायाः नवमे दिवसे भगवतः श्रीरामचन्द्रस्य प्राकट्यदिवसः वर्तते। दिवसोऽयं रामनवमीति नाम्ना लोके प्रसिद्धः। अस्मिन् दिवसे जनाः सोल्लासेन भगवतः श्रीरामचन्द्रस्य पूजनं कुर्वन्ति, किञ्च श्रीरामचन्द्रस्य बालस्वरूपस्य विशेषतया पूजनं कृत्वा शोभा यात्राः, जागरणम् , यागम्, रामकथा इत्यादिनां धार्मिकानां कृत्यानां पालनं कुर्वन्ति।
सर्वेषु हिन्दूगृहेषु प्रायः जनाः व्रतमाचरन्ति। वस्तुतः श्रीरामचन्द्रः हिन्दूनां कृते मर्यादायाः पर्यायः क्षत्रियधर्मस्य साक्षात् देवः वर्तते। अस्मिन्वर्षे अप्रैलमासस्य १० दिनांके रविवासरे रामनवम्याः उत्सवः आभारते मान्यते। नवमे दिनांके रात्रौ सार्द्धैकवादनात् नवमीतिथेः प्रारम्भः भविष्यति, या ११ अप्रैल दिनांके प्रातः सपादत्रिवादनं पर्यन्तं भविष्यति।
रामनवम्याः आदिवसे सर्वार्थसिद्धिः योगः रवियोगः, पुष्यनक्षत्रे सुकर्मायोगश्च भविष्यति। वस्तुतः रामनवमी पर्वः स्वयमेव सिद्धः मूहूर्तः वर्तते यस्मिन् दिवसे कृतानां शुभकार्याणां सहस्रगुणा फलं सम्भवति।