मुम्बई। बॉलीवुडाभिनेता-आमिर खानस्य “लाल सिंह चड्ढा” चलचित्रस्य प्रथमगीतं प्रसारितम्। गीतस्य नाम “कहानी” वर्तते। “कहानी” गीतस्य गायक: मोहनकन्नन: अस्ति। संगीतकार: प्रीतम:, गीतकार: अमिताभ भट्टाचार्य: चास्ति।
अत्र उल्लेखनीयमस्ति यत् आमिरखान: चलचित्रस्य “वीडियो” गीतं न परं “ऑडियो” गीतं प्रसारितवान्। अस्मिन् चलचित्रे आमिरखान:, करीना कपूरखान:, मोनासिंह:, चैतन्य अक्किनेनी च मुख्यभूमिकासु सन्ति।
“लाल सिंह चड्ढा” चलचित्रम् एरिक रोथ इत्यस्य 1994 तमे प्रसारितं हॉलीवुड- चलचित्रं “फॉरेस्ट गम्प” इत्यस्य हिन्दी रीमेक- चलचित्रमस्ति। चलचित्रस्य निर्देशक: अद्वैत चंदन: अस्ति ।