२०२३ वर्षे शिमलायां भविष्यति सम्मेलनस्य एका गोष्ठी। सम्मेलने प्रत्येकेन राज्येन साकं प्रत्येकस्य प्रमुखनगरस्य सहभागिताया: अस्ति योजना।
शिमला। २०२३ वर्षे प्रस्तावितस्य जी-२० शिखरसम्मेलनस्य एका गोष्ठी शिमलायामपि भविता। यतोहि सम्मेलनस्य आतिथेयं भारतदेश: करोति। शिखरसम्मेलने प्रत्येकेन राज्येन साकं प्रत्येकस्य प्रमुखनगरस्य संयोजनस्य सहभागिताया: वा योजना अस्ति।
अस्मिन् शिखरसम्मेलने विंशति: देशानां राष्ट्राध्यक्षा: अन्ये गण्यमान्या: प्रतिनिधय: च भागं ग्रहीष्यन्ति। सम्मेलनेन सम्बद्धा एका गोष्ठी शिमलायामपि प्रस्ताविता अस्ति। यस्यां जी-२० देशानां राष्ट्राध्यक्षाणां प्रतिनिधय: भागं स्वीकरिष्यन्ति।
अस्मिन् सन्दर्भे शिमलाया: उपायुक्तेन सह भारतसर्वकारस्य विदेश-मंत्रालयस्य महत्वपूर्णा गोष्ठी अभवत्। यस्यां शिमलायां शिखरसम्मेलनस्य गोष्ठ्या: विषये चर्चा कृता।
शिमलाया: उपायुक्तेन आदित्यनेगिना कथितं यत् शिखरसम्मेलनस्य गोष्ठीविषये विदेशमन्त्रालयस्य अधिकारिभि: सह व्यवस्थानां मूल्यांकनाय विस्तृता चर्चा अभवत्।