लखनऊ। प्रदेशसर्वकारेण अयोध्यायां रामायणविश्वविद्यालयस्य स्थापना क्रियते, येन युवभ्यः वृत्त्याः सम्भावनानां द्वारं तु उद्घटिष्यति साकमेव युवसु संस्कृतभाषां प्रति रुचिः अपि वर्धिष्यते ।
रामायणविश्वविद्यालये छात्रान् वेदः, रामायणम्, उपनिषद्, योगः, ध्यानम्, आयुर्वेदः चेत्यादिनां अध्ययनेन सह संस्कृतव्याकरणे अपि बलं प्रदास्यते ।
विश्वविद्यालयस्य स्थापनायाः उद्देश्यं भारतीयसभ्यतायाः पारम्परिकशिक्षायाः च संरक्षणं विकासः च कृत्वा युवसु संस्कृतिवर्धनम् अस्ति ।
योगिसर्वकारेण यूनां संस्कृतभाषां प्रति रुचिः वर्धितुम् अपि च संस्कृतक्षेत्रे वृत्त्या योक्तुं प्रदेशसर्वकारेण एतादृशस्य प्रथमविश्वविद्यालयस्य स्थापना क्रियते यत्र छात्राः प्राचीनवैदिकशिक्षापद्धत्या ज्ञानार्जनं करिष्यन्ति अपि च संस्कृतक्षेत्रे वृत्तिः प्राप्तुं शक्ष्यन्ति । साकमेव विश्वविद्यालये आधुनिकविज्ञानस्य अपि शिक्षा प्रदास्यते ।
रामायणविश्वविद्यालयाय ट्रस्टद्वारा एकविंशतिः एकड़मिता भूमिः चिन्हिता
विश्वविद्यालये हिन्दीभाषायै संस्कृतभाषायै च प्रमुखस्थानं प्रदास्यते। प्रथमचरणे अनुमानितः पञ्चशतेभ्यः छात्रेभ्यः शिक्षादानेन सह तेषाम् आवासस्य भोजनस्य च व्यवस्था अपि विश्वविद्यालये उपलब्धा भविष्यति ।
रामायणविश्वविद्यालयाय महर्षिविद्यापीठट्रस्टद्वारा सहमतिज्ञापनं हस्ताक्षरितं करिष्यते । एतं निर्मातुं ट्रस्टद्वारा एकविंशतिः एकड़मिता भूमिः चिन्हिता ।
ध्यातव्यम् अस्ति यत् 2017तमाद् वर्षाद् पूर्वं केनचिद् अपि सर्वकारेण संस्कृतस्य पक्षे ध्यानं न दत्तं न तु वृत्त्या योजनस्य कोऽपि प्रक्रमः आरब्धः यद्यपि संस्कृतेन वृत्त्याः सम्भावनाः देशात् विदेशपर्यन्तं प्रसरिताः सन्ति । योगिसर्वकारस्य अयं प्रक्रमः अस्यां दिशि महत्त्वपूर्णः सिद्धः भविष्यति ।