प्रतियोगितायां देशस्य 23000 विद्यालयानां 6 लक्षछात्रछात्रा: प्रतिभागं कृतवन्त:। “यदि छात्रा: विभिन्नप्रतियोगितासु प्रतिभागं कुर्वन्ति तु तेषां सर्वांगीणविकास: भवति”। प्रधानाचार्य: लोकेन्द्र-अण्थवाल:
कुलदीपमैन्दोला
रितेशशर्मा
कण्वनगरीकोटद्वार। उत्तराखंड। सरस्वतीविद्यामंदिर- इंटर- कॉलेज- कोटद्वारे बायज्यूस लर्निंग एप इत्यनेन माध्यमेन डिस्कवरी सुपर स्कूल लीग इत्यस्य प्रतियोगिताया: आयोजनम् अभवत्। प्रतियोगिताया: प्रभारिणा आचार्य-रोहित-बलोदीद्वारा विज्ञापितं यत् अस्यां प्रतियोगितायां देशस्य 23000 विद्यालयानां 6 लक्षछात्रछात्रा: प्रतिभागं कृतवन्त:।
प्रतियोगिताम् अस्यां स्वविद्यालयस्य द्वौ छात्रौ 7कक्षात: देवांशधस्माना एवं 9कक्षात: अभिनवगुसाई स्थानं प्राप्तवन्तौ। द्वयो: छात्रयो: कृते शुभकामनां प्रददन् विद्यालयस्य प्रधानाचार्य: लोकेंद्र- अंथवालवर्य: स्मृतिचिन्हं, बायज्यूसपक्षत: समागत: उपहारस्यूतं जलकूपीं च सम्मानरूपेण दत्तवान्।
अथ च प्रोक्तं यदि छात्रा: विभिन्नप्रतियोगितासु प्रतिभागं कुर्वन्ति तु तेषां सर्वांगीणविकास: भवति। तै: विद्यालयस्य अन्यछात्रा: अपि प्रतिभागं कर्तुं प्रेरिता:। अवसरेऽस्मिन् विद्यालयस्य आचार्य: अनिलकोटनाला, राजनशर्मा राहुलभाटिया मधुबाला नौटियाल आदय: उपस्थिता: आसन्।