नवदेहली। भारतीयग्रामांचलेषु, दूरान्तदुर्गम्यप्रान्तेषु च उन्नतशिक्षणप्रवाहस्य लाभाः प्रेषणीयाः। नगरेषु भव्यभवनेषु उन्नतशिक्षायाः उपयोगः उपेक्षितानां कृते चिन्तनीयः।
समावेशीशिक्षया समाजस्य, राष्ट्रस्य वा विकासः संभवः इति उपराष्ट्रपति नायडू उक्तवान्। दिली विश्वविद्यालयस्य शताब्दीसमारोहे मुख्यातिथिः नायडू शोधसंस्थानस्य भूरिप्रशंसां करोति स्म। मंचासीनाः कुलपतिः योगेश सिंहः, मन्त्री धर्मेन्द्र प्रधानः अपि भारतस्य विश्वगुरुपदोपरि विश्वासं प्रकटितवन्तौ।