अहमदाबाद। गुजरातस्य शासकीय शिक्षानुष्ठानेषु शिक्षणाधिकारनियमबलेन पुनः 4.5 सहस्त्रं विद्यार्थिनः प्रवेशं प्राप्तुं समर्थाः। गतमासे यत्र प्रथमपर्याये 16 सहस्त्रं छात्राः पंजीकृताः अभवन्, तथापि 13242 आसनानि रिक्तानि।
अनेन कारणेन द्वितीयवारं प्रवेशप्रक्रिया प्राचलत्। अधुनायावत् राज्यस्य अनेकेषु विद्यालयेषु प्रायतः 9957 विद्यालयेषु वा 71154 छात्राः निःशुल्कं प्रवेशं प्राप्ताः सन्ति। जूनमासे तृतीयपर्याये रिक्तासनेषु छात्राः आवेदयितुं निवेद्यते।