– जगदीश डाभी
मुम्बई । (संस्कृतवार्ता:) एकाप्राप्तनूतनावार्तानुसारं भानुशाली-चित्रणालेन निर्मितं संदीप सिंहस्य “सफेद”चलच्चित्रस्य अनावरणं गतदिवसे कान्स् चलच्चित्रोत्सवे विख्यात: संगीतकार: ए आर रहमान: कृतवान् ।
अस्मिन् चलचित्रे मुख्य-भूमिकायाम् अभय वर्मावर्येण सह मीरा चोपड़ा वर्तते । निर्देशकेन संदीप सिंहेन निर्देशित-सफेद चलच्चित्रस्य अनावरणं प्रसंगे अभय वर्मा, मीरा चोपड़ा, लेखक-निर्देशकश्च संदीप सिंह: ,निर्माता विनोद भानुशाली, सह-निर्माता विशाल गुरनानी, जूही पारेख मेहता च समुपस्थिता: आसन् ।
उत्साहित: लेखक-निर्देशकश्च संदीप सिंह: उक्तवान् यत् अस्मिन् “सफेद” चलच्चित्रे अपरिमित-सम्मानस्य वार्ता अस्ति । इति गतदिवसे “कान्स् चलच्चित्रोत्सवे संदीप सिंहस्य ‘सफेद’ चलच्चित्रस्य ए आर रहमान: अनावरणं कृतवान् ।