नलबारी,(जगदीश डाभी)। कुमारभास्करवर्मसंस्कृतपुरातनाध्ययन विश्वविद्यालयः, साहित्य अकादेमी देहली इत्यस्य नेतृत्वे द्विदिवसीय राष्ट्रीयसंस्कृतसंगोष्ठ्यां भारतीयस्वातन्त्र्यसङ्ग्रामे संस्कृतसाहित्यस्य योगदानमाधारीकृत्य मे मासस्य १६-१७ दिनांके अनुष्ठानम् अभवत् । आदौ विश्वविद्यालयस्य कुलपतिः प्रो. दीपककुमारशर्मणवर्याः उद्घाटनसत्रस्याध्यक्षता कृतवन्तः ।
तस्य निर्धारितमार्गेण विश्वविद्यालयस्य छात्राः सर्वान् स्वागतं कारितवन्तः । तत्परं व्याकरणाध्यक्षः डॉ. चिरञ्जीविअधिकारिमहोदयः स्वागतभाषणेन अतिथीनां परिचयमपि प्रदत्तवान् ।
भारतवर्षस्य भिन्नेषु प्रदेशेषु संस्कृतपण्डितप्रवराः एषा संस्कृतसाहित्यसंगोष्ठ्यां आगतवन्तः । तत्र मुख्याध्यक्षाः रूपेण विराजमानमासीत् सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य पूर्वकुलपतिः, तथा साहित्य अकादेम्याः परामर्शसंयोजकः आधुनिककविः पद्मश्रीपुरस्कृतौ अभिराजराजेन्द्रमिश्रवर्याः साहित्ये कविनां योगदानं विषये संगोष्ठ्यां उपस्थापितवान् । पुनः प्रो. रमाकान्तशुक्लवर्यः , प्रो. भगीरथप्रसादत्रिपाठीवर्यस्य आत्माया शान्तिकृते स्मरणसभा जाता ।
अत्र संस्कृतविद्वतवर्यानां मध्ये प्रो. के श्रीनिवासरावः, प्रो. एन सुरेशवावु , एन्. के. सुन्दरेश्वरन , प्रो. सत्यनारायणचक्रवर्तिः , डॉ. मञ्जुषाकुलकर्णी , प्रो. रमाकान्तपाण्डेयः , प्रो. हरेकृष्णशतपथी , प्रो. अरुणरंजनमिश्रः , डि.एस.आर. कृष्णमूर्तिः,एस्. रङ्गनाथः, प्रो. सदाशिवद्विवेदी, प्रो. मीरा द्विवेदी , प्रो. देवराजपाणिग्रहिः , प्रो. राघवेन्द्रभट्टः, डा. केशवलुइटेलः , डा. गोविन्दशर्मावर्याश्च एते संस्कृतसाहित्ये सन्तपुरुषाणां, कवीनां , संस्कृतकाव्यानां , संस्कृतपत्रकारितानां विषये च वर्णितप्रसङ्गे उपस्थापिताः ।
अन्तिमे कुलपतिः प्रो. दीपककुमारशर्मणः निर्धारितप्रसंगोपरि उक्त्वा , कुलसचिवः धन्यवादार्पणं कृतवन्तः । सर्वेः मिलित्वा शान्तिमन्त्रेण, राष्ट्रीयसंगीतेन च अनुष्ठानस्य समाप्तिं कृतवन्तः । इतोपि तत्र कुलसचिवः डॉ.हेमेन्द्रशर्मणः , साहित्यविभागाध्यक्षः डॉ. रातुलबुजरबरुवा, पारम्परिकविभागाध्यक्षः डॉ. रञ्जिततिवारिः , डॉ. राजीवलोचनात्रेयः, डॉ. राजीवलोचनशर्मणः, डॉ. चिरञ्जीविअधिकारिः, डॉ. निवेदितागोस्वामिः, डॉ. देवव्रतवाराइ, डॉ.अलकादासः , डॉ. प्रणवज्योतिडेका, डॉ. मैत्रेयी गोस्वामी, डॉ. नुरिमा यास्मीनः, कार्यसञ्चालकाः, शोधच्छात्राः, छात्राः च उपस्थिताः आसन् । अत्रैव सहभागीरूपेण प्रायः १४०जनाः उपस्थिताः आसन् ।