-जगदीश डाभी
मुम्बई । (संस्कृतवार्ता:) प्राप्तवार्तानुसारं “कंट्री ऑफ़ ब्लाइंड” चलच्चित्रस्य प्रथमं विज्ञापन छायाचित्रं फ्रांस देशे कान्स् चलच्चित्रोत्सवे प्रसारितं जातम् ।
अस्मिन् चलच्चित्रे चलच्चित्राभिनेत्री हिना खान:, शोएब निकस शाह:, अनुष्का सेन: च मुख्य-भूमिकासु वर्तन्ते । इनामुलहक: खलनायकस्य भूमिकायां वर्तते । तर्हि अस्मिन् चलच्चित्रे जितेंद्र राय:, मीर सरवर: चापि दर्शनं दास्यत: ।
“कंट्री ऑफ़ ब्लाइंड” चलचित्रस्य निर्देशक: , राहत काज़मी अस्ति । इति गतदिवसे बॉलीवुड नायिका हिना खान: जनसंचारमाध्यमेन “कंट्री ऑफ़ ब्लाइंड” चलच्चित्रस्य विज्ञापनचित्रं प्रसारितं जातम् इति सूचनां प्रसारितं कृतवती ।