देहली, जगदीश डाभी। दिनाङ्के मे ३० देहलीप्रान्ते रामकृष्णपुरम् विभागस्य गोष्ठी कटवारियासरायस्थपंचायतभवने आयोजिता । गोष्ठ्यां मुख्यातिथिरूपेण देहलीप्रान्तसंगठनमंत्री श्रीविवेकमहोदयः, देहलीप्रान्तसहप्रान्तमंत्री श्रीसुशीलमहोदयः संवादशालासंयोजकश्च श्री रामकृष्णमहोदयः’ एते उपस्थिताः आसन् ।
अतिथिभिःदीपप्राज्ज्वलनेन गोष्ठ्याः आरम्भानन्तरं विभागसंयोजिका सुश्रीतरुणा अवस्थी अतिथीनां परिचयम् अकारयत् । गोष्ठ्यां त्रीणि सत्राणि आयोजितानि ।
प्रथमे परिचयसत्रे समेषां परिचयं विहितम् । दायित्ववन्तः कार्यकर्तारः विभागे जनपदेषु च कृतकार्याणां विवरणम् उपस्थापितवन्तः । गोष्ठ्यां २० कार्यकर्तारः उपस्थिताः आसन् । केषाञ्चन दायित्ववतां नामानि यथा – लवीशमहोदयः ( रामकृष्णपुरम् विभागसंगठनमंत्री) विवेकमहोदयः(मिहिरावलिजनपदमंत्री) प्रदीपपाण्डेयमहोदयः(मिहिरावलिजनपदसहमंत्री) रामगोपालफगोड़ियामहोदयः(मिहिरावलिजनपदप्रचारप्रमुखः) अमितमहोदयः(वसंतजनपदमंत्री) इत्यादयः ।
द्वितीयसत्रं सहप्रान्तमंत्री श्रीसुशीलमहोदयः संबोधितवान् । सः कार्यकर्तारः कार्यकर्तृकर्तारः कथं जायन्ते’ इति स्पष्टतया निगदितवान् । अस्मिन् सत्रे जनपदानुसारं गोष्ठ्यः आयोजिताः ।
तृतीये सत्रे जनपदानुसारं आगामित्रिमासेषु लक्ष्यीकृतकार्याणां प्रस्तुतिकरणं जनपददायित्ववद्भिः विहितम् । श्रीसुशीलमहोदयः विभागस्तरे जनपदस्तरे च कार्यवाही पुस्तिकायाः स्थापनार्थं निर्देशान् उक्तवान् । गोष्ठ्याः अन्ते केषाञ्चन नूतनदायित्वानां घोषणा कृता ।