
नवदेहली। पेट्रोलियम मन्त्री हरदीप सिंह पुरी उक्तवान् यत् विगतेषु अष्ट-वर्षेषु देशे एल पी जी कनेक्शन इति वातीन्धन सेवा उपभोक्तृणां संख्या प्रभूतसंख्यायां समेधिता ।
अष्ट-वर्षपूर्व यत्र देशे चतुर्दश दशमलव पंच कोटि मिता: एल पी जी उपभोक्तारः आसन्, तत्रैव इदानीं यावत् इयम् संख्या समेध्य त्रिंशत् दशमलव त्रि-नव-कोटि- मिता संवृत्ता । एतेषु नवकोटि उपभोक्तारः प्रधानमन्त्री उज्ज्वला योजनायाः अन्तर्गतं पञ्जीकृताः सन्ति ।