
– जगदीश डाभी
मुम्बई । (संस्कृतवार्ता:) कान्स् चलच्चित्रोत्सव: पश्चाद् आर माधवनस्य निर्देशने निर्मित-रॉकेट्री: द नंबी इफेक्ट चलच्चित्रस्य प्रचारार्थम् आर माधवन अमेरिका देशं गतवान् । ‘रॉकेट्री: द नंबी इफेक्ट’ चलच्चित्रम् “इसरो” संस्थाया: प्रतिभाशाली-नांबी नारायणनस्य जीवनमुपरि आधारितमस्ति ।
आर माधवन: “नंबी नारायणन स्टैफोर्ड” इत्येन सह टेक्सास नगरे चलच्चित्रस्य प्रचारं कुर्वन् अस्ति तदा आर माधवन: “इसरो” संस्थाया: वैज्ञानिका अंतरिक्ष-यात्री “सुनीता विलियम्स” इत्येन सह साक्षात्कारं कृतवान् ।
अस्मिन् चलच्चित्रे आर माधवनेन सह.अन्तरराष्ट्रीय-कलाकारा: फीलिस लोगन, विंसेंट रियोटा, रॉन डोनाची च सन्ति । शाहरुख खानेन सह सूर्या अपि दर्शनं दास्यति ।
चलच्चित्रं हिंदी, अंग्रेजी, तमिल, तेलुगु, मलयालम, कन्नड़ च सहितम् ६-भाषासु अखिलविश्वे जुलाई मासस्य 1-दिनाङ्के प्रेक्षागृहेषु प्रसारितं भविष्यति ।