
शिमला । हिमाचलप्रदेशविश्वविद्यालयस्य कृषिविश्वविद्यालयस्य वानिकीविश्वविद्यालयस्य तथा च १३८ महाविद्यालयानां प्रायश: २२०० शिक्षकै: महाविद्यालयेषु अवकाशकारणत: विश्वविद्यालय-अनुदान-आयोगस्य वेतनवृत्तिं प्राप्तुं जायमानम् आन्दोलनम् स्थगितम् । अवकाशानन्तरं पुनः आरप्स्यते।
हिमाचलप्रदेश-शासकीय-महाविद्यालय-प्राध्यापकसंघस्य प्रदेशमहासचिवेन डॉ. रामलालशर्मणा शिमलायां पत्रकारवार्तायां सूचितम् यत् तेषामान्दोलनम् पञ्चदशदिनानि यावत् प्राचलत्। परञ्च सर्वकारपक्षत: प्राप्तस्य सकारात्मकस्य आश्वासनस्य कारणाद् आन्दोलनस्य स्थगनं क्रियते।सः अवदत् यत् मुख्यमन्त्री मण्डीनगरे एकं वक्तव्यं दत्तवान् यत् सः विश्वविद्यालय-अनुदान-आयोगस्य (यूजीसी) वेतनमानस्य विषये महत् निर्णयं कर्तुं शक्नोति।
तस्मिन् एव काले सः उक्तवान् आसीत् यत् यदि हिमाचलदेशे वेतनमानं कार्यान्वितुं भवति तर्हि तस्य पञ्जाबं द्रष्टुं आवश्यकता नास्ति। एतादृशे परिस्थितौ एतैः शिक्षकैः आन्दोलनम् किञ्चित्कालं यावत् स्थगयितुं निर्णयः कृतः अस्ति । अनन्तरम् अपि यदि सर्वकारः तेषां पक्षे निर्णयं न करोति तर्हि पुनः एते शिक्षकाः आन्दोलनं करिष्यन्ति।हिमसंस्कृतवार्ता