
– जगदीश डाभी
मुम्बई । बालिवुड्-चलच्चित्र-उद्योगस्य प्रसिद्धः अभिनेता रणबीर-कपूरः अद्यकाले तस्य शीघ्रं प्रदर्शितस्य चलच्चित्रस्य ब्रह्मास्त्रस्य कृते समाचारेषु वर्तते । गतदिवसे ‘शमशेरा’ चलच्चित्रस्य विज्ञापन पुटकं प्रदर्शितं जातम् । यस्य प्रेक्षकाणां बहु उत्तमं प्रतिक्रिया अभवत्।
दर्शकाः वदन्ति यत् एतत् चलच्चित्रं प्रदर्शितस्य अनन्तरं बक्स् आफिस इत्यत्र उत्तमं कार्यं करिष्यति। अभिनेता रणबीर कपूरस्य अग्रिमस्य चलच्चित्रस्य विषये शुभसमाचारः आगच्छति। विषयः अस्ति यत् रणबीरकपूरस्य अग्रिमस्य चलच्चित्रस्य शमशेरा इत्यस्य विज्ञापनचित्रं बहिः आगतं।
Soon after the poster was leaked, Yash Raj Films also issued a statement mentioning they now need to rejig their plan for the release of the trailer.https://t.co/IexWgethEj
— News18 (@CNNnews18) June 18, 2022
यस्मिन् तस्य रूपं अत्यन्तं विस्मयकारी दृश्यते। ‘शमशेरा’ चलच्चित्रं जुलैमासस्य २२ दिनाङ्के शमशेरा इति चलच्चित्रं देशे सर्वत्र सिनेमागृहेषु प्रदर्शितं भविष्यति। निर्मातारः चलच्चित्रस्य पोस्टरं विमोचयन्ते सति तस्य प्रदर्शनस्य तिथिं प्रकाशितवन्तः।
यदि वयं शमशेरा इति चलच्चित्रस्य अभिनेता रणबीरकपूरस्य रूपस्य विषये वदामः तर्हि सः अत्र विशालकेशेषु, वर्धितदाढ्येन च दृश्यते। तस्य मुखस्य व्यञ्जनानि अत्यन्तं उग्राणि सन्ति।
As the poster of #RanbirKapoor's upcoming film #Shamshera was leaked on the Internet on Saturday morning, the director of the film #KaranMalhotra says that somewhere it is positive feedback.
Click here to read more: https://t.co/ba0Now6pAu pic.twitter.com/XnXgYbMXU2— Pune Mirror (@ThePuneMirror) June 19, 2022
‘शमशेरा’ चलच्चित्रे रणबीरकपूरस्य रूपं दृष्ट्वा प्रशंसकाः अस्य चलच्चित्रस्य कृते अतीव उत्साहिताः सन्ति। ‘शमशेरा’ चलच्चित्रे रणबीरकपूरस्य अतिरिक्तं संजयदत्त:, वाणी कपूर:, आशुतोष राणा, रोनित राय:, सौरव शुक्ला, श्रीधरचौधरी, आहनाकुमरा इत्यादयः अभिनेतारः मुख्यभूमिकायां दृश्यन्ते।
अस्य चलच्चित्रस्य निर्देशकः करण मल्होत्रा अस्ति । ‘शमशेरा’ इत्यस्य अतिरिक्तं रणबीरकपूरः ब्रह्मास्त्र, एनिमल इत्यादिषु चलच्चित्रेषु दृश्यते।
#Shamshera, starring Ranbir Kapoor and Vaani Kapoor, has had its poster leaked. Ranbir Kapoor's upcoming film, which is due to release in July, is one of his most anticipated.#ShamsheraPosterLeaked #RanbirKapoor #vaanikapoor pic.twitter.com/wmlbnMF6Ul
— Asiana Times (@AsianaTimes) June 18, 2022