
अहमदाबाद, जगदीश डाभी । गुजरात राज्य परीक्षा बॉर्ड द्वारा आयोजिताया: NMMS परीक्षाया: परिणामस्य घोषणा गतदिवसे जाता । अस्यां परीक्षायां गुजरातस्य गीरसोमनाथजनपदस्य उनाप्रान्तस्य सर्वकारीय श्रीसोनारी प्राथमिक शालाया: चत्वारः बालकाः योग्यतायां स्थानं प्राप्तवन्तः । च विद्यालयस्य नाम प्रकाशितं कृतवन्त: ।
यस्मिन् निर्मला परमार:, रूतिक चौहाण:, अजय चारणिया, ध्रुविलसिंह चौहाण: च वर्तन्ते । चतुर्णां बालकानां परीक्षायै सज्जीकृत्य विद्यालयस्य उत्साही अध्यापक: मिलन डोडिया इत्यस्मै अभिनन्दनानि।