कुलदीपमैन्दोला। देहरादून।उत्तराखण्ड। मुख्यमंत्री पुष्करसिंहधामीवर्येण मुख्यमंत्री कैम्पकार्यालये सर्वकारस्य 100 दिवसपूर्णावसरे “सर्वश्रेष्ठ बने उत्तराखण्ड अपना” इत्यस्मिन्विषये समाधारिते ‘हमारो पहाड़’ धारावाहिकाया: शीर्षकत्वे गीतस्य लोकार्पणं कृतं ।
अस्मिन् गीते विकासयात्रासंबंधिता: विभिन्नस्रोत्रै: एवं च राज्यसर्वकारद्वारा जनहिताय क्रियमाणानां महत्वपूर्णकार्याणां दृश्यं प्रदर्शितं । अवसरेस्मिन् कैबिनेटमंत्री श्री गणेशजोशी, अपरमुख्यसचिव श्रीमती राधा रतूड़ी, गीतकार: श्री नरेन्द्र: रौथाण:, श्री अमितखरे उपस्थिता: आसन् ।