हरिद्वारं, मनीषबड़थ्वाल: । हरिद्वारे जनाः ग्रीष्मतापात् निवृत्तिम् अवाप्तवन्तः । उष्णतापेन तप्ता: जना: वृष्टिमवलोक्य शान्तिमग्ना: अभवन् बुधवासरात् गुरुवासरपर्यन्तं निरन्तरं वृष्टिद्वारा जनेषु सुखम् आसीत्। परन्तु वृष्टिमात्रा शनै: शनै: निरन्तरमेव वृद्धिं समागता यद्यपि कार्यार्थं गमने सर्वेषां जनानां कृते प्रातःकालादेव गृहात् निर्गच्छन् कष्टकरं प्रत्यक्षानुभव: आसीत् ।
एतस्मिन् समये वर्षाकारणात् अनेकेषु विद्यालयेषु अवकाशः घोषितोभवत् । अथ च अत्यधिकवृष्टिद्वारा जलप्लावनस्य स्थिति: समुद्भूता।