“अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः ।
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः । ।”
इति श्रीमद्भगवद्गीतानुसारेण यज्ञेन किं प्रयोजनमिति अनेन श्लोकेन ज्ञायते यत् अन्नग्रहणेन भूतानि जायन्ते । वृष्टेः अन्नस्य सम्भवः , यज्ञाद् जायते पर्जन्यः , ऋत्विग्यजमानयोः व्यापार एव कर्म , ततः समुद्भवः यज्ञः , स एव कर्मसमुद्भवः इत्युच्यते । प्राचीनकाले यज्ञस्य प्राधान्यमधिकमासीत् यतो हि ऋषयः प्रकृतेः संरक्षणार्थं , जनहितार्थं , राक्षसशक्तेः नाशार्थं , राजशक्तेः संवर्धनार्थञ्च यज्ञयागादीनि कार्याणि सदा कुर्वन्ति स्म । तैतरीयसंहितानुसारेण “यज्ञो वै विष्णुः” इति श्रुतेर्यज्ञ ईश्वरः तदर्थं यत् क्रियते तद् तु यज्ञार्थं कर्म भवति , तस्मात् लौकिकबन्धनात् मुक्तः सन् ईश्वराय यज्ञार्थं कर्म कुरु अर्थात् यज्ञादिकम् आचर । वैदिककाले मूर्तिपूजा नासीत् अतः मनुजाः स्वेष्टदेवस्योपासनार्थं यज्ञादिकमाचरितवन्तः । ते चिन्तितवन्तः यत् जपध्यानापेक्षया शीघ्रतया तान् देवान् प्रसन्नं कर्तुमेकमेवोपायाः इति ।
यज्ञः परमार्थप्रयोजनार्थं क्रियमाणः एकः उच्चस्तरीयपुरुषार्थः । अन्तर्जगति दिव्यतां समाविष्य प्राणापाने स्वप्राणमेव आहुतिं दत्त्वा जीवनरूपसमाधिं समाजरूपी यज्ञे होमकरणमेव वास्तविकं यज्ञं भवति । यज् धातोः “यजदेवपूजासंगतिकरणदानेषु” इति पदात् उत्पन्नः । अस्य देवान् पूजयति संगमयति ददाति इत्यर्थः । भारतीयसंस्कृतेः इष्टतमं कर्म भवति यागः । ऋते यागात् स्वजीवनक्रियाकलापः असम्पूर्णाः । साम्प्रतं सर्वेऽपि मनुजाः प्रयोजनमूलकाः जाताः । यदि प्रयोजनं वर्तते तर्हि एव अवधानं दास्यन्ति रूचिं च प्रदर्शयन्ति अन्यथा धनकालव्यय इति मत्वा अरुचिं प्रदर्शयन्ति । अतः यज्ञस्य प्रयोजनं पश्यामः ।।
यज्ञः किमर्थं करणीयः –
भारतीयसंस्कृतीनां प्रतीकत्वेन विराजते यज्ञः । शुभाऽशुभधर्मकार्येषु अनेन यज्ञकार्येण विना
असम्पूर्णः । जन्मादारभ्य मृत्युपर्यन्तं सर्वविधसंस्कारेषु यज्ञः आवश्यकः । हिन्दुसम्प्रदाये वेदानां यावत् महत्त्वं दरिदृश्यते तावत् यज्ञादिकार्येष्वपि भवति । यतो हि वेदानां प्रधानविषय एव यज्ञः वर्तते । चत्वारः वेदाः अपि अस्मात् यज्ञात् एव आविर्भूताः । यज्ञात् एव मानवाः सर्वकार्याणि कर्तुं प्रभवन्ति । न केवलं मानवमात्राय एनं यज्ञम् उपकरोति अपि तु जलस्थलवनस्पति-वाय्वन्तरिक्षद्युलोके च सर्वत्र यज्ञस्य प्रभावः दरिदृश्यते । ।
प्राग् राज्ञः अनेकविधाः यज्ञाः चक्रुः । यथा वृष्टत्यर्थं , राज्यवृद्ध्यर्थं , विश्वविजयप्राप्त्यर्थं , सन्तत्यर्थं तथा पर्वादिष्वपि यज्ञादिकम् अकुर्वन् । महाभारते वैयासिक्यामानुशासनिकपर्वणि पितामहभीष्मेन युधिष्ठिराय तथा इतरपाण्डवानां मनसि शान्तिप्रदानाय यज्ञविषयकमुक्तम् –
· “यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञांगो यज्ञवाहनः । ।”
· “यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधनः ।
यज्ञान्तकृद्यज्ञगृह्यमन्नमन्नाद एव च । ।”
मनुस्मृतौ मनुना प्रोक्तं यत् – सृष्टेः उद्देश्येन स्रष्टा समस्तहोमस्य आहुतिं प्रददातीति । कल्याणनिमित्तं सर्वेषां निरन्तरं सृष्टेः यज्ञो भवति । परमेश्वरं यज्ञमयं पूजनीयमिति । लौकिके तु नित्यक्रियमाणम् अग्निहोत्रादिकं नित्ययज्ञत्वेन उच्यते । तथा केनचित् हेतुना अर्थात् पर्यावरणविशेषेण अथवा विशिष्टोद्देशेन क्रियमाणः यज्ञः नैमित्तिकयज्ञत्वेन उच्यते । अयं यज्ञः मनुस्मृतौ पञ्चविधत्वेन प्रोक्तः – ऋषिदेवभूतनृपितृरूपेण । ऋषियज्ञं ज्ञानपरम्परार्थं , देवयज्ञे देवानां कार्तज्ञार्थं , भूतयज्ञं जीवार्थं , नृयज्ञं मानवार्थं सद्भावनार्थञ्च यथा अतिथिपूजनमित्यादि एवं पितृयज्ञं वंशवृध्यर्थं भवति ।
· “ऋषियज्ञं देवयज्ञं भूतयज्ञं च सर्वदा ।
नृयज्ञं पितृयज्ञं च यथाशक्ति न हापयेत् ।।”
यज्ञेन किं प्रयोजनम् –
सृष्टेः क्रियाकलापः यज्ञं परिभ्रमति । ऋषयः प्रोचुः “अयं यज्ञो विश्वस्य भुवनस्य नाभिः” यागः सृष्टेः आधारबिन्दुः । स्वयं गीतायां कृष्णेन उक्तम् –
· “सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् । ।”
कल्पादौ सृष्टिकर्ता ब्रह्मा यज्ञसहिताः प्रजाः (त्रयोवर्णाः) ताः उत्पाद्य उक्तवान् अनेन यज्ञेन प्रसवो वृद्धिः उत्पत्तिः तां कुरुध्वम् । एष यज्ञो वो युष्माकम् इष्टान् अभिप्रेतान् कामान् फलविशेषान् दोग्धि । ऋषिगणेभ्यः विस्तारिताः तथा वसुन्धराभ्यां प्रदत्ताः अत्युन्नतफलवद्यज्ञः भारतीयसंस्कृतेः अमूल्यं रत्नम् । तं सर्वाधिकफलदातृत्वेन एवं पर्यावरणसंरक्षणस्य आधारभूतस्तम्भत्वेन परिगण्यते ।
यज्ञयागादि द्वारा इष्टकामधुक् भवति अर्थात् अभिप्रेतान् कामान् फलविशेषान् आप्नोतीति । तथा च प्रकृतेः मनुजस्य च संरक्षणं भवति । यतो हि साम्प्रतं जलवायुपृथिव्यादि प्रदूषणानि अधिकानि जातानि तेन अनेकानि नूतनानि रोगाणि आविर्भूतानि , अनेन ग्रस्ताः मानवाः स्वार्थिनः , चिन्तनाशक्तिरहिताः , परस्त्रीलोलुपाः , अहिंसकाः , दुष्टाः , धनलोलुपाः , मातृभूमिविनाशकाः च सञ्जाताः । तेषाम् आमूलात् परिष्कारं कर्तुम् अशक्ताः वैद्याः । अतः व्याधेः आगमनानन्तरं तस्य परिष्कारापेक्षया यथा व्याधिः एव न आगच्छेत् तथा आचरणीयम् । तदर्थमुपायः वर्तते यज्ञयागादि आचरणेन । तद्वारा –
i. पर्यावरणरस्य संरक्षणम्
ii. आरोग्यस्य संरक्षणम्
iii. आध्यात्मिकज्ञानस्य विकासः
यज्ञयागादि द्वारा पर्यावरणस्य आरोग्यस्य च संरक्षणम्, आध्यात्मिकज्ञानस्य च विकासः कथं भवति इति क्रमेण अवलोकयामः ।
1. पर्यावरणस्य संरक्षणम् –
यज्ञे बहुविधौषयः , बहुविधोत्तमवस्तूनि स्थापयन्ति । यदा ततः धूमः आयाति । तद् घ्राणेन
न केवलं मनुजाः एव आरोग्यवन्तः भवन्ति अपि तु प्रकृतेः असन्तुलने , प्रकोपानां निवारणे तथा तस्यानुकूल्ये यज्ञप्रक्रिया सहायिका भवति । यथा वैदिकयज्ञः मुख्यरूपेण सृष्टिसम्बन्धितोऽस्ति । ऋग्वेदस्य पुरुषसूक्ते यज्ञेन समस्तसृष्टेः निर्माणं पोषणञ्च उक्तम् । सुखेच्छुकाः मनुजाः सर्वादा यज्ञे आहुतिं दत्वा प्रार्थयन्ते यत् सर्वेषां वर्धनं भवतु , सम्पूर्णविश्वस्य कल्याणं भवतु , देवानाञ्च शान्तिर्भवतु इति । ।
एवञ्च सृष्टियज्ञो यत् भवति तद् वसन्तुर्तुः आज्यत्वेन , ग्रीष्मर्तुः यज्ञकाष्ठत्वेन तथा च शरदृतुः हविष्यान्नत्वेन ऋग्वेदस्य पुरुषसूक्ते वर्णितमस्ति । ।
मनुना प्रोक्तम् –
· “अग्नौ प्रस्ताहुतिः सम्यगादित्यमुपतिष्ठते ।
आदित्याज्जायते वृष्टिवर्ष्टेरन्नं ततः प्रजाः ।।”
अतः ज्ञायते यत् यज्ञात् सकाले वृष्टिः भवति । दुर्भिक्षा न भवति । भूकम्प-ज्वालामुखेः विस्फोटः – ऋतूनां शीघ्रतया परिवर्तनमतिवृष्ट्यनावृष्टीतिभीत्यादि प्रकृतेः प्रकोपाः । तदुपशमनार्थं यज्ञ एकैवोपायः येन पर्यावरणस्य सन्तुलत्वं संरक्षणत्वञ्च भवति ।
2. आरोग्यस्य संरक्षणम् –
यज्ञक्रियया न केवलं यजमानस्य एव लाभः अपितु यज्ञे भागग्रहिताः सर्वेऽपि लाभान्वितः भवन्ति । यथा यज्ञधूमे जीवाणुनाशकक्षमता भवति अतः तद् सेवनेन अनेकविधरोगाणामपचयः निवारणञ्च भवति । तथा –
· वातपित्तकफादिरोगाः
· कासरोगः
· मधुमेहः
· क्षयरोगः
· निम्नोच्चरक्तचापः
· अवसादरोगः(डिप्रेशन्)
· मूत्रसम्बन्धितरोगः
· श्वासखाद्यनलीसम्बन्धितरोगः
· यकृतसम्बन्धितरोगः
· श्वेतरक्तकोशिकाकैंसरः
· बलरहितास्थिपञ्जराः (Weak Bones)
· Nosocomial Infection
· Nosocomial non-life- threatening Infections
एतादृशाः बहुविधरोगानां निवारणं भवति यज्ञधूमसेवनेन । औषधीनां सेवनापेक्षया धूमघ्राणेन शीघ्रतया आरोग्यवन्तः भवामः । उदाहरणार्थं दूरदर्शनपत्रिकाप्रकटनादिषु प्रचूरितरूपेण प्रकटनानि भवन्ति यत् ध्रूमपानं(Smoking) त्यज । तद्वारा वयं स्वारोग्यं नाशयामः । ये धूमं सेवन्ति ते तु स्वशरीरं नाशयन्येव परन्तु निकटवर्तिनमपि प्रभावयन्ति नाशयन्ति च । तद्वारा अनेकविधः व्याधिः आयान्ति कैंसर अपि आगच्छतीति प्रकटयन्ति । अयं धूमः शरीरनाशकः ।
उत्तमधूमः तद् भवति यद् यज्ञे अनेकविधौषधीनां स्थापनेन नियाति । बहुविधोत्तमवस्तूनि अग्नौ स्थापनेन आगत धूम एव उत्तमधूमः तस्य घ्राणेन आरोग्याभिवृद्धिः सञ्जायते । न तु नाशः । तेन अनेकविधरोगः अपचाययति ।
3. आध्यात्मिकज्ञानस्य विकासः –
यज्ञेन स्वास्थ्यस्य संवर्धनं , बलिष्ठता , ज्ञानसमवर्धनं , सङ्कल्पबलं एवं प्रवाहवृद्धिर्भवति
तथा दूरदर्शिता, मनोत्साहः , स्फुर्तिः , भावनायां श्रद्धा तथा क्रियासु निष्ठा इत्यादि अनेकविधोत्तमभावाः , उत्साहाश्च प्रादुर्भावन्ति । तद्वारा हिंसादि भावनायाः त्यागः , शान्तिप्रियता , लोकसंरक्षणादिकार्येषु आसक्तिः , ईश्वरे आस्ता , आध्यात्मिकप्रवृत्तिषु आसक्तिः , उत्तमचिन्तं , सामूहिकसहकारितायाः भावना , अनुशासनं , सुसज्जा इत्यादि गुणानाम् आविर्भावः जायते ।
यज्ञसमाप्ते तुलसी तथा पञ्चगव्यादि सेवनमात्रेण सूक्ष्मसंस्कारा आविर्भवन्ति । तया आस्था , देवोपमश्रद्धा , आकांक्षादि सात्त्विकांशाः निर्यान्ति । तथा आलोचनाशक्तेः परिवर्तनं भवति । दैविककार्येषु आसक्तिमुत्पादयन्ति ।
यज्ञे मन्त्रोच्चारणात् अर्थात् सस्वरोच्चारणात् (उदात्तानुदातादि प्रयोगात्) परिसरे उत्तमकिरणाः आविर्भवन्ति ताः परिसरं प्रकाशयन्ति तया शरीरस्य सूक्ष्मग्रन्थिनं प्रभावयन्ति । तद्वारा आलोचनाशक्तिमुत्तमदिशि प्रेरयति । येन जनाः दुष्टालोचनां परित्यज्य अन्तराले स्थिता श्रद्धा , आध्यात्मिकता , सुविचाराः , दैवे आस्था इत्यादि अनेकविधगुणानामाविर्भावः सञ्जायते ।।
अन्ये केचन लाभः –
यज्ञात् अवाप्ताः लाभाः अधः उल्लिखिताः । ते च –
· स्वर्गप्राप्तिः
· यजमानस्य अऋणित्वम्
· यज्ञात् ऋणत्रयात् मुक्तिः (देवपितृनृ)
· पापानां प्रायश्चित्तम्
· सुसन्ततेः प्राप्तिः
· कष्टानां निवारणम्
· रोगाणामुपशमनम्
· दुष्टशक्तिपीडोपशमनम्
उपसंहारः –
वेदानुसारेण “स्वर्गकामो यजेत” यज्ञात् स्वर्गप्राप्तिः भवति । परन्तु दैवत्वात् परिपूर्णजीवनविधानमेव नाकत्वेन उच्यते । अत्र ऋतुषु यदा कृषिकार्यात् प्राप्ता नवधान्यागमने यागादिकमुष्ठीयते । तद्वारा ईश्वरे कार्तज्ञ्यं समर्पयन्ति कृषिकाः । शरदऋतौ समाप्तिवेलायां आग्नयणोष्टि , चैत्रऋतौ समाप्तिवेलायां चैत्री , श्रावणे श्रावणी , आश्वियुजे श्राध्दः तथा वर्षाऋतौ चातुर्मासादि यागाः कुर्वन्ति । एते पाकयज्ञत्वे सम्बुध्यते । तथा कृष्णपूर्णिमायां दर्शपौर्णमासादि यज्ञः भवति । एतदतिरिच्य बहुकालपर्यन्तं क्रियमाणाः यज्ञा अपि भवन्ति ते च अश्वमेधयज्ञः । विशिष्टोद्देशेन क्रियमाणाः काश्चन यज्ञाः भवन्ति । ते च –
· वाजपेययज्ञः – आधिपत्यसिद्ध्यर्थम्
· विश्वजित्यज्ञः – इष्टकाम्यर्थम्
· अश्वमेधयज्ञः – विश्वजितार्थम्
· विश्वस्तुतयज्ञः – यशप्राप्त्यर्थम्
भगवद्गीतायां श्रीकृष्णः उचुः “यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।” यज्ञ ईश्वरः तदर्थं यत् क्रियते तद्यज्ञार्थं कर्म , तदेव श्रेष्ठतमं जीवनम् भवति । तदपेक्षया अन्येन कर्मणा क्रियमाणः कर्मबन्धनः भवति । तथा जीवात्मायाः परमात्मनि एकीभूते बाधकाः । अतः यज्ञं कुरु । मनुस्मृत्यानुसारेण “महायज्ञैश्च यज्ञैश्च ब्राह्मणीयं क्रियते तनुः ।” सर्वश्रेष्ठयज्ञः तदेव भवति येन ब्रह्ममयी ब्राह्मणत्वरुप देवोपमजीवनं जीवति तथा स्वयं स्वशरीरं , मनः , अन्तःकरणादिकं परिष्करोति ।
एवम् अनेकविधयज्ञाः विद्यन्ते । तद्वारा स्वलाभस्तु भवत्येव विश्वकल्याणमपि सम्भवति । यथा रोगनिवारणं , स्वास्थ्यसंवर्धनं , वनस्पतिसंवर्धनं , उत्तमवातावरणस्य निर्माणं , दैव्यनुकूलता , उत्तमशक्तेर्जागरणं , समाजशिक्षणमित्यादि अनेकविधकल्याणकारकाणि अत्र समन्वितानि । ।
सन्दर्भग्रन्थसूची –
१. गोयन्दका श्रीहरिकृष्णदासः अनुवादकः , “श्रीमद्भगवद्गीता” , गीताप्रेस , गोरखपुर , २०१०
२. शास्त्री विद्यामार्त्तण्ड पं. सीतारामः , “गृहाग्निकर्मप्रयोगमाला” , गीताप्रेस , गोरखपुर , १९९४
३. डॉ. मुक्ता वाणी , “गृह्यसूत्रों में संस्कारों का स्वरूप” , मिलिन्द् प्रकाशन् , हैदराबाद् , २००८
४. कृष्णकुमार , “प्राचीन भारत की शिक्षा पद्धति” , श्री सरस्वती सदन, नई दिल्ली – २००८
५. “विष्णुसहस्रनामस्तोत्रम्” गीताप्रेस , गोरखपुर
६. Gayatri parisarasya yajya/Havan for bacteria-free homes Study – The Times of India.htm
७. Gayatri parisarasya yajya/हवन की महिमा.htm
८. Gayatri parisarasya yajya/किस यज्ञ से कौन सा फल.htm
Dr. S.T.P. KANAKAVALLI
M.A, M.Ed, PhD
W/O K.S.R. SASIDHAR
Flat No 55, Door No 24-26/293,
TATAVIJAYA PRASAD HOUSE,
Ist Floor, Near Sattammatalli Temple,
EAST-POINT COLONY – 3, SRINIVAS NAGAR,
SIMHACHALAM (PO),
VISHAKHAPATNAM- 530028
Email: valli.stp@gmail.com,
Benefits, health, happiness and enthusiasm from Yagya