
कुलदीपमैन्दोला।कोटद्वार।गुरुपूर्णिमाया: शुभावसरे रितेशशर्मासरस्वतीविद्यामंदिरे इंटर- कॉलेज-जानकीनगरकोटद्वारे विद्याभारत्या: उत्तराखंडप्रांतस्य माननीयप्रांतप्रचारकस्य श्रीभुवनचंद्रस्य प्रवास: कार्यक्रमे संजात: । अस्य कार्यक्रमस्य शुभारंभ: माननीयसंगठनमंत्री भुवनचंद्र: एवं च विद्यालयस्य प्रधानाचार्य: लोकेंद्र-अंथवाल: मातसरस्वत्या: एवम् महर्षिव्यासस्य चित्रे पुष्पार्चनेन कृतवन्त: ।
तत्पश्चात् संगठनमंत्रिणा छात्रछात्रा: सम्बोधिता: । तै: गुरुपूर्णिमाया: अर्थं एवम् महत्वं वर्णयन् प्रोक्तं यत् । पौराणिककाले महाव्यक्तित्वे, ब्रह्मसूत्रं, महाभारतं, श्रीमद्भागवतं च अष्टादशपुराणसदृशं अद्भुतसाहित्यरचनाकारस्य महर्षिवेदव्यासस्य आषाढ़शुक्लपक्षे पूर्णिमायां जन्म अभवत् ते एव आदि-गुरु: मन्यते ।
गुरुपूर्णिमाया: पर्वप्रसिद्धमिदं व्यासस्य जयंतीरूपेण मन्यते । दिवसेद्य अस्माभि: गुरुं व्यासांशं मत्वा तेषां पूजा करणीया । एवम् एव गुरोरपि मन्त्रप्राप्तं कर्तुमपि दिनमिदं श्रेष्ठं मन्यते । दिवसेस्मिन् गुरुजनानां सेवाया: बहुमहत्वं वर्तते । सहैव तै: छात्रछात्रा: योगे अष्टांगयोगस्य पंचांगानां सत्यस्य, अहिंसाया:, अस्तेयस्य, ब्रह्मचर्यस्य, अपरिग्रहस्य विषये प्रोक्तं । तथा छात्रछात्रा: सर्वमिदमंगीकर्तुं ससंकल्पेन प्रेरिता: ।
अवसरेस्मिन् अनिलकोटनाला, रोहितबलोदी, राहुलभाटिया , राजनशर्मा, प्रकाशकैंथोला, संगीतारावत, सरोजनेगी, मधुबालानौटियाल, अनिलभटनागर:, गौरवबुडाकोटी आचार्याश्चादय: उपस्थिता: आसन् ।