कुलदीपमैन्दोला। उत्तराखण्ड। श्रीबद्रीनाथ-राजकीय-संस्कृत-महाविद्यालयस्य संस्कृत-अध्यापकस्य श्रीविनोदप्रसादबैंजवालवर्यस्य पदोन्नति: नैनीताले संजात:। उत्तराखण्डशैक्षिक(संस्कृतशिक्षासंवर्ग) सेवानियमावली2011 इत्यन्तर्गतं एवं च सचिव, उत्तराखण्डलोकसेवाआयोग, हरिद्वार इत्यनेन माध्यमेन चयनसमितिद्वारा संस्तुते: आधारेण श्रीबद्रीनाथ- राजकीय-संस्कृत-महाविद्यालय-नई-टिहरी इत्यस्य सहायकाध्यापकं श्रीविनोदप्रसादबैंजवालं टिहरीगढ़वालं सहायक-निदेशक, संस्कृतशिक्षा (वेतनमानं रुप्यकाणी 56100- 177500 क्रम:-10), इत्यस्मिन् पदे तत्कालप्रभावात् पदोन्नतं कुर्वन् जनपद-नैनीताले कार्यरताय/ पदस्थापनाय माननीयेन राज्यपालवर्येण सहर्षस्वीकृति: प्रदत्ता ।
पदोन्नतिफलस्वरूपेण श्रीबैंजवाल: 02 वर्षस्य
विहितपरिवीक्षायाम् अपि भविष्यति । श्रीबैंजवाल: शासकीयकार्यहिते स्वपदीयदायित्वेन सह संस्कृतसहायकनिदेशकरूपेण, जनपद-उधमसिंह नगरस्य, अल्मोड़ाजनपदस्य तथा बागेश्वरजनपदस्य दायित्वम् अपि निर्वक्ष्यति । सहैव पदोन्नतिदायित्वविषये सचिवेन श्रीचन्द्रेशकुमारवर्येण अतिरिक्तकार्यभारस्य योगदानस्य आख्याविषये समादिष्ट: यत् शासनाय/निदेशकाय, संस्कृतशिक्षायै, उत्तराखण्डदेहरादूनाय आख्या प्रस्तुतीकरिष्यति इति ।