शोभनीयं भारतम्
श्लाघनीयं भारतम्
अतीव महनीयम्
मम प्रियं भारतम्
शूरवीरनिर्मितम्
नवसर्जनप्रवर्तितम्
विश्वस्य आकर्षणम्
मम प्रियं भारतम्
यद्धि वेदोत्पत्तिस्थलं
ज्ञानवैभवपोषितम्
कौशलेन समृद्धम्
मम प्रियं भारतम्
बहुकुशाग्रमतय:
भारतदेशे निवसन्ति
सर्वे: गौरवं कुर्वन्ति
तादृशं प्रियभारतम्
वसुधैव कुटुम्बकम्
यत्र लोकधारणम्
बहुविशिष्टताधृतम्
मम प्रियं भारतम् …….
– अनिता दीपक शर्मा
(मध्यप्रदेश:)