
कुलदीपमैन्दोला। उत्तराखण्ड।
उत्तराखंडविधानसभाध्यक्षया रितुखण्डूरीवर्यया “नमामि गंगे परियोजना” इत्येषां सम्बन्धितानां कार्याणां समीक्षायै नमामि गंगे एवं राज्यपरियोजनाप्रबंधनसमूहस्य (एसपीएमजी) उच्चाधिकारिभिस्सह गोष्ठी सम्पादिता। गोष्ठ्यां अधिकारिणां कृते कोटद्वारविधानसभाक्षेत्रांतर्गतं सुखरोनद्या:, मालननद्या: एवं च खोहनद्या: सम्बन्धितानां निपतन्नलिकानां विषये कार्ययोजनाया: वार्ता कृता ।
सहायकनदीषु केंद्रसर्वकारेण नमामि गंगे योजनांतर्गतं कार्यं क्रियते तु कोटद्वारेपि सहायकनदीषु प्राथम्येन, घट्टानां निर्माणं, जलप्लावने सुरक्षा योजना, च नलिकाप्रवाहिकायै 15 दिवसांतर्गतं कार्ययोजनायाविषये निर्देशा: प्रदत्ता: ।
सहैव अधिकारिणां कृते उत्तरप्रदेशसीमाया: एसटीपी प्लांट इत्यस्य निरीक्षणाय अपि निर्देशा: प्रदत्ता: । येन कोटद्वारनगरस्य नलिकानां संयुक्तकार्ययोजना भवितुं शक्यते एवं च तेन नगरस्य मलिननलिकानां समस्यानां समाधानं भवितुं शक्यते।