-जगदीश डाभी
भोपाल: । मध्यप्रदेश: उज्जयिनीस्थ श्रीमहाकालेश्वर-मन्दिर-प्रबन्ध समिते: संचालितम् श्री महाकालेश्वर वैदिक प्रशिक्षण एवं शोध संस्थानस्य २०२२-२३ तमे वर्षे प्रथमा प्रथम वर्षतः प्रथमा तृतीयवर्षम् यावत् कक्षायाम् प्रवेशार्थं प्रवेशपरीक्षा सम्पन्ना जाता।
श्रीमहाकालेश्वर मन्दिरसय प्रशासकमहोदयः गणेश कुमार धाकडः उक्तवान् यत् अस्मिन् परीक्षायाम् मध्यप्रदेशः उत्तरप्रदेशःउत्तरांचलः उत्तराखंडःराजस्थानः छत्तीसगढ़स्य च छात्रा: भागं गृहीतवन्तः परीक्षाधारेण प्रावीण्य सूची निर्मिय क्रमेण निर्धारित संख्यायाम प्रवेशः दास्यते।
महर्षि पतंजलि संस्कृत संस्थानम् भोपालम् द्वारा पाठ्यक्रमे वेद, व्याकरणम् ,संस्कृतसाहित्यम् ज्योतिषम् सामाजिक अध्ययनम् ,आग्लभाषा एतेषाम् विषयाणाम् शिक्षणम् प्रदास्यते,अवसरे अस्मिन् परीक्षा समिति सदस्यः डॉ.तुलसीदासः परोहा, विभागाध्यक्ष: संस्कृतविश्वविद्यालयः ,राकेशः शर्मा, सान्दीपनि राष्ट्रीय वेद विद्या प्रतिष्ठानम्, डा.पीयूषः त्रिपाठी निदेशकः, रमेशकुमारशुक्लः,अपूर्वपौराणिकः दीपकःउपाध्यायः,च उपस्थिता: आसन्।