डॉ. नरेन्द्रराणा
जुलाईमासस्य 3-दिनाङ्के रविवासरे उत्तराखंडत: बालक-“व्योम लखेड़ा” इत्यस्य जन्मदिवसोपलक्ष्ये Online संस्कृतशिक्षणम् इत्यनेन फेसबुक-मध्ये आयोजिताया: ऑनलाइन- संस्कृत- प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता। अस्यां प्रतियोगितायामस्याम् उत्तर प्रदेशत: अभिजीत पाण्डेय: प्रथमं स्थानं प्राप्तवान् । द्वितीयं स्थानम् उत्तराखंडत: विनय खण्डूडी, तृतीयस्थाने हिमाचल प्रदेशत: पूनम शर्मा वर्तते।
प्रतियोगिताया: पुरस्कारप्रायोजक: उत्तराखंडात: “संस्कृतसमाचार” इत्यस्य प्रधानसंपादकश्री-कुलदीप मैन्दोला आयोजकश्च गुजरातत: राष्ट्रीय- संस्कृत- प्रचारक: जगदीश डाभी आसीत्। ध्यातव्यं वर्तते यद् Online संस्कृतशिक्षणं द्वारा प्रतिसप्ताहम् ऑनलाइन संस्कृत- प्रश्नोत्तरी- प्रतियोगिताया: आयोजनं क्रियते।
पुरस्कार-प्रायोजक: उत्तराखंडात् कुलदीप मैन्दोला सर्वेभ्यो: विजेतृभ्यो: पुरस्कारं दास्यति। तेन सह उत्तराखंडात् संस्कृत-रसास्वाद: संस्था विजेतृभ्यो: प्रमाणपत्रं दास्यति ।