
कुलदीपमैन्दोला। उत्तराखण्ड।
उत्तराखण्डस्य विधानसभाया: सभागारे उच्चशिक्षाविभागेन सह, वित्तविभागेन सह, कार्यदायीसंस्थाकृषिमंडीनिर्माण-इकाई इत्यनेन सह तथा राज्यकर एवं केंद्रीयकरविभागेन सह च डा.धनसिंहरावतवर्येण संयुक्तगोष्ठ्यां विशेषरूपेण कार्यदायीसंस्थासु शासनद्वारा स्वीकृतधनराशिसु संजायमाने जीएसटीसम्बन्धे विस्तृतचर्चा कृता । सहैव समाधानोपायेन सहैव उच्चशिक्षाविभागस्य अधिकारिण: शीघ्रमेतत् आचरितुम् निर्देशिता: ।