
नूतनविष्णु: रेग्मी “प्रकृतिसाधु:”
उत्तरप्रदेशसंस्कृतसंस्थानम्-लखनऊ-द्वारा २०२२-तमवर्षस्य जुलाईमासस्य चतुर्थे दिनाङ्के विंशतिदिवसाय( प्रतिदिनं एकघण्टात्मककालाय ) प्रथमस्तरीयसंस्कृतभाषाशिक्षणस्य कक्षाणां शुभारम्भ: बहुत्र संजात:। एतस्मिन् एव क्रमे गोरखपुरत: अपि उत्तरप्रदेशसंस्कृतसंस्थानस्य भाषाप्रशिक्षक: नूतनविष्णु: रेग्मी गूगलमीट्माध्यमेन सायं ८ वादने कक्ष्याया: शुभारम्भमकरोत्।यत्र बहव: पंजीकृतछात्रा: विभिन्नेभ्य: स्थानेभ्य: पठितुमागता:।
तत्र देशत: एवं विदेशत : अपि संस्कृतानुरागिण: समागतवन्त:। नूतनविष्णु: रेग्मी कक्ष्याया: महत्वं किंचित् प्रतिपाद्य कक्ष्याया: नियमान् अश्रावयत् ।सामान्यपरिचयानन्तरं स: परिचयपाठं अवाबोधयत्।सर्वे पाठितविषयं सम्यक् ज्ञात्वा तत्रैव अभ्यासमपि कृतवन्त:।अन्ते सर्वेषां जिज्ञासाया: उपशमनमपि तेन कृतम्।कक्ष्यायां ४० जना: समागता: कक्ष्यैषा प्रतिदिनं ८ वादनत: ९ वादनपर्यन्तं चलिष्यति ।
इयं कक्ष्या २६ जुलाई २०२२ पर्यन्तम् चलिष्यतिब ।अन्ते परीक्षा अपि भविष्यति । उत्तीर्णवद्भ्य: प्रमाणपत्राणाम् वितरणस्य काचित् व्यवस्थापि संस्थानेन कृता अस्ति।उत्तरप्रदेशसंस्कृतसंस्थानेन संचालितकक्ष्याभि: एतावता बहव: उपकृता:।अग्रेऽपि भविष्यन्ति एव।शीघ्रमेव तृतीयस्तरस्यापि शुभारम्भ: भविष्यति । तस्य पाठ्यक्रमनिर्माणं प्रचलत् अस्ति ।
ये एतां नि:शुल्क-कक्षामागन्तुकामा: ते “sanskritsambhashan.com” इति लिंक् उद्घाट्य तत्र स्वानुकूलतया मासं समयं च चीत्वा स्वस्य नामांकनं कारयितुं शक्नुवन्ति।ये प्रथमस्तरं पठितवन्त: तेभ्य: अन्येभ्यश्च द्वितीयस्तरस्य प्रशिक्षणमपि संस्थानेन दीयते । परीक्षायाम् उत्तीर्णवद्भ्य: शिक्षार्थिभ्य: प्रमाणपत्राणि अपि दूरवाणीसन्देशमाध्यम्न प्रेषणव्यवस्था अस्ति। ये द्वितीयस्तराय स्वस्य नि:शुल्कं नामांकनं कर्तुमिच्छन्ति तेभ्य: नामांकानलिंक् https://sanskritsambhashan.com/second_level_reg.php इत्यस्ति।