
मंबई, महाराष्ट्र, कुलदीपमैन्दोला। संस्कृतभारत्याः कोकणप्रान्तेन महाराष्ट्रस्य माननीयराज्यपालेभ्यः भगतसिंह कोशियारी महोदयेभ्यः आग्रहः कृतः यत् मुम्बई महानगरस्य आद्यशिल्पकारस्य ‘नाना शंकरशेठ’ महोदयस्य नाम्ना मुम्बई सेन्ट्रल रेल्वेस्थानकस्य नाम भवेत् इति।
श्रीमान् नाना शंकरशेठ महोदयः संस्कृतभाषायाः माहात्म्यं लक्ष्यीकृत्य ब्रिटिश कार्यकाले शिक्षणव्यवस्थायां संस्कृतभाषायाः संवर्धनार्थम् ऐतिहासिकं कार्यम् अकरोत्। तस्य ऐतिहासिककार्यस्य सम्माननार्थं तथा मुम्बई महानगरस्य विकासाय कृतभूरिपरिश्रमार्थं तेषामुपकारः नितरां प्रशंसार्हः वर्तते। महोदयस्य परिश्रमस्य सम्मानार्थम् एवं समाजाय प्रेरणार्थं संस्कृतभारतीपक्षतः निवेदनं कृतम्।
संस्कृतभारतीप्रतिनिधिमण्डलेन मा. राज्यपालमहोदयेभ्यः अनुरोधः कृतः यत् अस्मिन् विषये राज्यस्य केन्द्रसर्वकारस्य च अनुवर्तनं कुर्वन्तु। अस्यां परिचर्चायां सर्वकारेण संस्कृतभाषायाः संवर्धनाय अत्यावश्यकः प्रयासः कर्तव्यः एवमेव नूतनशैक्षिकनीतौ संस्कृतभाषायाः महत्त्वं च दातव्यम् इति आग्रहः कृतः।
#जयतु_संस्कृतं_जयतु_भारतम्#संस्कृत #Sanskrit#संस्कृतभारती
— Dida 👵🏽 (@Dida55225447) July 6, 2022
अस्मिन् प्रतिनिधिमण्डले संस्कृतभारत्याः अखिलभारतीयसंघटनमन्त्री श्रीमान् दिनेश कामत, कोकणप्रान्ताध्यक्षः श्रीमान् चंद्रशेखर वझे,श्री हरेश आमडेकर, श्री विठ्ठल भट, सुप्रसिद्धः निगमविशेषज्ञः श्री नरेन्द्र बगाडे एवं समरसता साहित्यपरिषदतः श्री सुनील ढेंगले इति इमे महाभागाः उपस्थिताः आसन्।
अस्माकं संस्कृतिः पर्यावरणस्नेहिनी।#पर्यावरण #environment #environmentallyfriendly #ecosystem #Sanskrit #संस्कृत #संस्कृतवार्ताः #वार्तावली #Sanskrit4Youth #sayyestosanskrit #जयतु_संस्कृतम् #जयतु_भारतम् #वन्दे_संस्कृतमातरम् pic.twitter.com/FfRDgfwols
— संस्कृत-भारती (Saṃskṛta-Bhāratī) (@samskritbharati) July 6, 2022