
कुलदीपमैन्दोला। उत्तराखण्ड। धनौरीस्थले हरिद्वारस्थ हरि-ओम-सरस्वतीकॉलेज इत्यत्र स्व. डॉ. तेजवीरसिंहसैनीवर्यस्य प्रतिमाया: अनावरणकार्यक्रमे प्रतिभागं कृत्वा उत्तराखण्डस्य विधानसभाध्यक्षारितुखण्डूरीद्वारा दीपप्रज्वालनेन कार्यक्रमस्य शुभारम्भ: कृत: । सहेव प्रतिमाया: अनावरणे वार्षिकपत्रिकाया: “तेजस” इत्यस्या: पत्रिकाया: विमोचनं कृतवती ।
अवसरेस्मिन् तया स्वभावार्पितं कृतं यत् शिक्षा कस्यचिदपि देशस्य निर्माणस्य आधारशिला भवति । अत: शिक्षा एतादृशी स्यात् न केवलं छात्रेषु बौद्धिकक्षमता च कौशलविकास: अपि तु तेषु तस्य नैतिकमूल्यं च चरित्रम् अपि सुदृढं स्यात् । डॉ. तेजवीरसिंहसैनीवर्यस्य स्वप्न: अग्रे वर्धनमेव तं प्रति सत्यश्रद्धाञ्जलि: भविष्यति ।