
कुलदीपमैन्दोला। उत्तराखण्ड। श्रीदेवसुमन-उत्तराखंडविश्वविद्यालयस्य तृतीयदीक्षांतसमारोह: सम्पन्नोभवत् । कुलपति: डा.पी.पी.ध्यानीवर्यश्च महामहिमराज्यपालमहोदय: ले.ज.गुरमीतसिंहवर्य: एवं च शिक्षामन्त्री श्रीधनसिंहरावत: दीक्षांतसमारोहे छात्रान् सम्मानेन अलंकृतवन्त: ।
180 मेधावीछात्रछात्रा: अवसरेस्मिन् ससम्मानेन स्वर्णपदकेन सम्मानिताश्च 3 छात्रा: श्रीदेवसुमनस्वर्णपदकेन च 3 छात्रा: कैप्टनशूरवीरसिंहपंवारपदकेन सम्मानिता: अभवन् । समारोहे 2018-19, 2019-20 व 2020-21सत्रस्य 41423 छात्र-छात्राभि: उपाधि: सम्प्राप्ता ।
अवसरेस्मिन् राज्यपालवर्येण सम्बोधितं यत् ज्ञानयोग्यबौद्धिकोपाधिधारकेभ्य: सामाजिकस्य च सामूहिकसमस्याया: प्रतिद्वन्द्वसंचयने सम्मुखीकर्तुं स्वरचनात्मकता च नवाचार: भवितव्य: ।
अनुसंधानस्य, प्रौद्योगिक्या: विस्तार: आवश्यक: विद्यते , सेवासम्प्राप्तित: सेवावसरप्रदाने परिवर्तयितुम् । विश्वविद्यालये उपलब्धसंसाधनानां नियोजितपाठ्यक्रमेषु परिवर्तयितुम् इष्टतमरूपेण उपयोग: करणीय: । अथ च उपाधिप्राप्तवद्भ्य: शिक्षामन्त्रिणा धनसिंहरावतेन शुभकामना: प्रदत्ता: ।