
कुलदीपमैन्दोला। उत्तराखण्ड। उत्तराखण्डस्य पौडीजनपदस्य प्रखण्डरिखणीखालक्षेत्रस्य कर्तियाक्षेत्रपंचायतसदस्यया बिनीताध्यानीद्वारा क्षेत्रीयजनसमस्यानां निराकरणाय च बहुवर्षेभ्य: लम्बितवनविभागस्य प्रस्तावितस्य वनमोटरमार्गनिर्माणाय उत्तराखण्डसर्वकारस्य वनमंत्रिणा सुबोध-उनियालेन सह च विधायकेन दिलीपरावतेन सह सम्मिल्य क्षेत्रसमस्या: प्रदर्शिता: च शीघ्रमेव कार्यवाहीं कर्तुं प्रोक्तं ।
तया समस्या: उक्ता: यत् सीमावर्तीग्रामपंचायतस्य काण्डाग्रामेण सह तैड़िया, काण्डा,दियोड़, जवाड़ियूंरौल, बीरोबाड़ी, भैंस्यारौ,तथा कर्तिया, हैड़ाग्वाड़, कालिंको, नौदानू, बंजादेवी, कर्तिया इत्यादिषु वनम् एवं वन्यजीवसंरक्षणं च मानववन्यजीवनसंघर्षस्य सुरक्षार्थं गमनागमनमार्गनिर्माणं , पूर्वत: संचलितानां वनयानमार्गाणां स्वच्छीकरणं च निर्माणं, वनाग्निसम्बन्धितेषु विधिवतरूपेण पूर्ववत् स्वच्छीकरणं भवेत् ।
ढकरबट्टास्थलात् गजरोड़ा तूणीचौड खेड़ा वनमोटरमार्ग:, काण्डा,बंजादेवी मगनूखालमार्ग:, तैड़ियाखाल: , तैड़िया इत्यादिपर्यन्तं मार्गनिर्माणम् आवश्यकं विद्यते । बिनीताध्यानीद्वारा कथितं यत् विधायकमहन्तदिलीपरावतेन सह विस्तृतचर्चाया: अनन्तरं विभागीयाधिकारिणां कृते निर्देशा: प्रदत्ता: । सहैव कार्याय निर्देशितं यत् राजीवगांधीग्रामीणविद्युतीकरणे योजनाया: अभावग्रस्ते तैड़ियाग्रामे विद्युतापूर्तिहेतु: वनविभागं अनापत्ति सम्प्रेषणाय तथा च विद्युतविभागस्य स्वीकृतिप्रदानाय अपि आदिष्टं ।
स्वकीय त्रिदिवसीयदेहरादूनप्रवासे बिनीताध्यानीद्वारा वनमन्त्रिण: कृते अवगत: कारित: यत् आच्छादितग्रामेषु आदिवसे कष्टसमस्याया: निराककरणम् आवश्यकं यथा वननियमे च विस्थापनप्रक्रियायां सम्मिलितग्रामे विकास: नाभवत् च नैवं हि तत्र आवश्यकवस्तु: प्राप्यते । ग्रामीणजना: पंचकिलोमीटरदूरं काण्डानालास्थलं गहनवनं पारं कुर्वन् प्राणार्पणभयग्रस्ता: भवन्ति।
अत्र यानाभाव: , विद्युतभाव: , स्वास्थ्याभाव: , शिक्षाभाव: ग्रामस्य त्रस्तपूर्णजीवनस्य नियति: समुत्पन्ना दृश्यते । स्थितेस्मिन् अन्यग्रामेषु अपि विद्यते । कृषिबाढसुरक्षा, च गजानाम् गमनागमनात् सुरक्षाया: प्रयासा: आवश्यका: भवन्तु । एतदर्थं वनमन्त्रिणा आश्वस्त: कृत: यत् शीघ्रमेव सम्बन्धित विभागाय कार्यवाहीनिर्देशा: प्रदत्ता: ।
द्वितीयपक्षे क्षेत्रे मन्दालनद्या: भयप्रवाहे समागततटीयस्थले बंजादेवीत: काण्डानालापर्यन्तं कृषिसुरक्षासन्दर्भे नदीसुरक्षाबन्धसन्दर्भे एवं च उत्तराखंडे 2015/16 वर्षे नियुक्तिसन्दर्भे औपबंधिकसहायक- अध्यापकानां कृते नियुक्तितिथे: आरभ्य नियमितवेतनमानवृद्धि: च तेषां राज्यपात्रतापरीक्षाया: उत्तीर्णतया सह प्रदानसन्दर्भे संगठनस्य प्रदेशाध्यक्षेण सूर्यसिंहपंवारेण सह, डॉ.अम्बिकाप्रसादध्यानीवर्येण सह च रमेशनेगीवर्येण सह सम्मिल्य शिक्षामन्त्रिणा डॉ.धनसिंहरावतेन सह विस्तृतसमस्यानां कृते चर्चा अभवत् ।