डॉ. नरेन्द्रराणा
जुलाईमासस्य 7-दिनाङ्के गुरुवासरे Online संस्कृतशिक्षणम् फेसबुक-समूह-इत्यनेन आयोजिताया: ऑनलाइन-संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता। अस्यां प्रतियोगितायामस्याम् उत्तराखंडत: पंकज पेटवाल: प्रथमं स्थानं प्राप्तवान् ।
द्वितीयं स्थानम् उत्तराखंडत: उमेश चंद्र जोशी, तृतीयस्थाने हरियाणात: एकता शर्मा वर्तते। प्रतियोगिताया: पुरस्कारप्रायोजक: राजस्थानत: आचार्य: चेतनकुमारशास्त्री आयोजकश्च गुजरातत: राष्ट्रीय- संस्कृत- प्रचारक: जगदीश डाभी आसीत्।
ध्यातव्यं वर्तते यद् Online संस्कृतशिक्षणं द्वारा प्रतिसप्ताहम् ऑनलाइन संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: आयोजनं क्रियते। पुरस्कार-प्रायोजक: राजस्थानत: आचार्य: चेतनकुमारशास्त्री सर्वेभ्यो: विजेतृभ्यो: पुरस्कारं दास्यति। तेन सह उत्तराखंडात् संस्कृत-रसास्वाद: संस्था विजेतृभ्यो: प्रमाणपत्रं दास्यति ।