नवदेहली। विगत २४ घण्टे देशे १८,८४० नूतनाः कोविड-१९-रोगेण पीडिताः, ४३ जनाः च मृताः। सम्पूर्ण भारत में कोरोना के सक्रिय प्रकरण वर्तमान में 1,25,028 अर्थात् 1.25 लाख से ऊपर हो चुके हैं। यत्र नियमितदैनिकसकारात्मकतादरः ४.१४% अस्ति । स्वास्थ्यमन्त्रालयात् प्रकाशितस्य अद्यतनतथ्यानुसारं गत एकस्मिन् दिने १६,१०४ जनाः कोरोनारोगेण निरामयाः अभवन्।
स्वास्थ्यमन्त्रालयेन उक्तं यत् राष्ट्रव्यापी टीकाकरण-अभियानस्य अन्तर्गतं एतावता १९८.६५ कोटि-टीका-मात्राः दत्ताः सन्ति। यदा तु भारतस्य सक्रियप्रकरणभारः सम्प्रति १,२५,०२८ अस्ति । एवं प्रकारेण सक्रियप्रकरणाः सम्प्रति ०.२९% सन्ति । सम्प्रति देशे कोरोनारोगेण स्वस्थतायाः दरः ९८.५१ प्रतिशतं भवति ।
स्वास्थ्यमन्त्रालयस्य अनुसारं विगत २४ घण्टेषु १६,१०४ कोरोनारोगिणां स्वस्थतां प्राप्तानां कारणात् स्वस्थतां प्राप्तानां जनानां कुलसंख्या ४,२९,५३,९८० इत्येव वर्धिता अस्ति। स्वास्थ्यमन्त्रालयस्य अनुसारं देशे पूर्वं दैनिकसकारात्मकतायाः दरः ४.१४%, साप्ताहिकसकारात्मकतायाः दरः ४.०९% च अस्ति । अधुना देशे कुलम् ८६.६१ कोटिपरीक्षाः कृताः सन्ति । यदा तु विगत २४ घण्टेषु ४,५४,७७८ परीक्षणं कृतम् अस्ति ।