कुलदीपमैन्दोला, उत्तराखण्ड। मुख्यमंत्री पुष्करसिंहधामी केन्द्रीयवित्तमन्त्रिण: श्रीमतीनिर्मलासीतारमणस्य अध्यक्षतायां वीडियो-कॉन्फ्रेंसिंग इत्यनेन माध्यमेन आयोजितस्य एपेक्स मॉनिटरिंग अथॉरिटी ऑफ नेशनल इंडस्ट्रियल कॉरिडोर डेवलपमेंट एण्ड इम्प्लीमेंटेशन ट्रस्ट इत्यस्य संगोष्ठ्यां प्रतिभाग: कृतवान् ।
अवसरेस्मिन् मुख्यमंत्री श्रीधामी प्रोक्तवान् यत् उत्तराखण्डे इन्टीग्रेटेड मैन्युफैक्चरिंग क्लस्टर (आई.एम.सी) इत्यस्य स्थापना हेतु: उधमसिंहनगरजनपदस्य खुरपिया तहसीलक्षेत्रे सर्वकारद्वारा 1002 एकड़भूमि: समुपलब्धीकृत: । तै: उक्तं यत् अमृतसर-कलकत्ता इण्डस्ट्रियल कॉरिडोर इति पंजाबं, हरियाणां, उत्तरप्रदेशं, बिहारं, झारखण्डं एवं पश्चिमबंगालं संयोजयति ।
उत्तराखण्ड: अस्य कॉरिडोर इत्यस्य प्रभावक्षेत्रे समायाति । अस्मिन्क्षेत्रे पूर्वत: एव अस्माकम् एव क्षेत्रं विद्यते । तै: प्रधानमंन्त्रिण: श्रीनरेंद्रमोदीवर्यस्य आभार: व्यक्तीकुर्वन्नुक्तं यत् तस्य संकल्पनाधारेण अस्य विशालस्य कॉरिडोर इत्यस्य विकास: संजायते । भविष्ये उद्यमसिंहनगरे आई.एम.सी इत्यस्य स्थापना भूयते । आई.एम.सी इत्यस्य स्थापनाद्वारा तत्र स्थितं इंडस्ट्रियलक्षेत्राय लाभ: सम्प्राप्स्यते ।
तस्मिन्मार्गे संस्थिते औद्योगिकक्षेत्रे सितारगंजत: लालकुआंपर्यन्तं संयोक्तुं 60किलोमीटर् रेलमार्गस्य विस्ताराय मुख्यमन्त्रिणा धामीवर्येण केन्द्रीयमन्त्रिण: कृते अनुरोध: कृत: । अवसरेस्मिन् केन्द्रीयवाणिज्योद्योगमंत्री श्रीपीयूषगोयल:, रेलमंत्री श्री-अश्विनीवैष्णव:, विभिन्नराज्यानां मुख्यमंत्री, नीति-आयोगस्य उपाध्यक्ष: डॉ. सुमनबेरी एवं विभिन्नराज्यानां उद्योगमन्त्रिभिस्सह अन्योच्चाधिकारिण: उपस्थिता: आसन् ।