कुलदीपमैन्दोला। उत्तराखण्ड। मुख्यमंत्री श्री पुष्करसिंहधामी रुड़कीनगरे रोटर प्रेसिजन इंस्ट्रूमेंट प्राइवेट लिमिटेड इत्यस्य मेक इन इंडिया इत्यन्तर्गतं प्रदेशस्य प्रथम ड्रोनसंस्थाया: शुभारम्भं कृतवान् । अवसरेस्मिन् मुख्यमंत्री श्री धामी स्वदेशीतकनीकद्वारा विनिर्मितन ड्रोन इत्यस्य उपकरणानां संज्ञानं प्राप्तवान् ।
मुख्यमंत्री श्री धामी रोटर ग्रुप इत्यस्य कृते वर्धापनम् वदन् उक्तवान् यत् प्रदेशस्य दिनमिदम् बहु-ऐतिहासिकं विद्यते , यदा देशस्य सर्वबहुश्च प्रदेशे प्रथम-आधुनिक ड्रोनतकनीकिसंस्थाया: शुभारम्भ: अभवत् । तै: कथितं यत् राज्यसर्वकार: च केंद्रसर्वकार: संसाधनहीनप्रतिभां मेक इन इंडिया, स्टार्टअप इंडिया, स्किल इंडिया इत्यन्तर्गतं प्रोत्साहयति ।
उत्तराखण्डस्य भौगोलिकपरिस्थितिदृष्ट्या जटिलराज्योस्ति, अत्र ड्रोन तकनीकि बहु-उपयोगी सिद्ध: भवितुं शक्यते । आधुनिक तकनीकिक्षेत्रे अद्य भारतं विश्वगुरु: भवितुम् अग्रेसर: विद्यते । प्रधानमन्त्रिण: श्रीनरेंद्रमोदीवर्यस्य नेतृत्वे भारतं मेक इन इंडिया इत्यन्तर्गतं ड्रोनतकनीकि अस्त्रनिर्माणक्षेत्रे बहुतीव्रतमं कार्यं करोति ।
ड्रोन इत्यस्य राज्यविकासाय बृहत्तरम् उपयुज्यते । अस्य कृते सर्वे विशेषज्ञा: स्वविचारप्रस्ताव: सर्वकारं सम्प्रेषयेत् । राज्यसर्वकारद्वारा प्रदेशे ड्रोन एप्लीकेशन रिसर्च सेंटर डार्क इति स्थापितोस्ति । अस्माकं सर्वकारस्य लक्ष्यम् अस्ति यत् अंतिमपथे स्थितव्यक्तिपर्यन्तं सम्प्राप्ति: इति। वयं विकल्परहितसंकल्पसिद्धांतेन सह कार्यं कुर्वन्त: स्म: ।