– जगदीश डाभी
मुम्बई । प्राप्तवार्तानुसारं गतदिवसे चिरंजीवी अभिनित-राजनीतिक-गॉडफादर चलच्चित्रस्य प्रथमं विज्ञापनचित्र-पुटकश्च प्रसारितं जातम् । एकस्मिन् लघुपुटके वयं पश्यामः यत् चिरंजीवी कृष्णवर्णीयं क्षीणं परिधानं धारयति, पुरातनकारयानमध्ये उपविश्य एकं दलकार्यालयं प्राप्नोति, तस्य समर्थका: उष्णस्वागतं कुर्वन्ति ।
Our Boss Megastar @KChiruTweets 🔥♥️#GodFather #Chiranjeevi pic.twitter.com/TZGsy2CL43
— R-A-J-E-S-H🔥 (@RajeshPittala_) July 9, 2022
अस्य चलच्चित्रस्य निर्देशकः मोहन राजा अस्ति, चलच्चित्रस्य कलाकारेषु मुख्याभिनेत्री नयनतारा अपि अस्ति । सलमान खानः अपि अस्मिन् चलच्चित्रे महत्त्वपूर्णा-भूमिकायां दृश्यते ।
चलच्चित्रे मुख्यभूमिकां निर्वहितुं चयनितानां अन्येषां बहुमुखीनां अभिनेतानां विषये विस्तरेण वदन्तः निर्मातारः अवदन् यत् ते सत्यदेवस्य चित्रणं नकारात्मकं भविष्यति इति । तथापि यद्यपि एतत् व्यापकतया सफलस्य मलयालमभाषायाः चलच्चित्रस्य लुसिफरस्य आधिकारिकं पुनर्निर्माणम् अस्ति । इति ‘गॉडफादर’ चलच्चित्रस्य प्रथमं विज्ञापनचित्र-पुटकश्च प्रसारितं जातम्, चिरञ्जीवी भव्यशैल्यां दर्शनं दतवान् ।
#GodFather #Chiranjeevi pic.twitter.com/0sHEuHkP19
— KonedalaKingCharan (@KonedalaCharan) July 9, 2022