कुलदीपमैन्दोला । उत्तराखण्ड। उत्तराखण्डस्य माननीय: राज्यपालवर्य: ले.जन.गुरमीतसिंहवर्य: राजभवने अग्निपथसेवान्तर्गतं सेनासेवावेदनप्रक्रियां समारब्धयितुं सेनाया: जोनलभर्ती इत्यस्य अधिकारी मेजरजनरल-एन.एस.राजपुरोहितेन च कर्नल-मनीषेण सह चर्चां कृतवान् ।
राज्यपालमहोदयेन अवसरेस्मिन् प्रोक्तं यत् उत्तराखण्डस्य कृते इयं गौरवस्य वार्ता विद्यते यत् अग्निपथयोजनाया: अंतर्गतं भर्तीप्रक्रिया उत्तराखण्डस्य कोटद्वारे, रानीखेते पिथौरागढ़े च संजायते । मम विश्वासोस्ति यत् प्रदेशस्य युवान: बहुसंख्याया़ं राष्ट्रसेवां कर्तुम् अग्निवीरसेवावेदने प्रतिभागं करिष्यन्ति इति ।
विदितम् अस्ति यथा अग्निवीरसेवाप्रक्रियाया: आवेदनानि समागतानि । अन्तर्जालमाध्यमेन सा प्रक्रिया 17.5युवावर्षत: 23युवावर्षपर्यन्तम् अष्टोत्तीर्णत: द्वादशोत्तीर्णयुवकै: पूर्यते । 25000अग्निवीराणां हेतु: परीक्षा अक्टूबरमासे सम्पत्स्यते च दिसम्बरत: सेवासंलग्नता भविष्यति । चतुर्वर्षीयप्रक्रियायां अग्निवीरसैनिका: 30000 रुप्यकाणि, 33000 रुप्यकाणि, 35000रुप्यकाणि, 40000 रुप्यकाणि वर्षक्रमेण सह सेवानिधिमपि प्राप्स्यन्ति ।