
सचिन शर्मा , मोदीनगर । उत्तरप्रदेशसंस्कृतसंस्थानस्य ऑनलाइनसंस्कृतसम्भाषणशिक्षणस्य प्रथम/द्वितीयस्तरस्य कक्षायां बालका: न केवलं धाराप्रवाह: संस्कृतसम्भाषणं कुर्वन्ति शिक्षयन्ति च अपितु ते सर्वेSपि आचरणं व्यवहारं कर्त्तव्यपालनं च प्रति जागरूका: अपि भवन्ति । अत्र कक्षायां ते नियमेषु भवन्ति यथा प्रतिदिनं सायंकाले अष्टवादने कक्षायां प्रवेशं कुर्वन्ति । अनन्तरं सरस्वतीवन्दना ध्येयमन्त्र: च भवति । सर्वेजना: स्वस्य स्वस्य माइकयन्त्रपिधानं कृत्वा एव स्थापयन्ति । एकस्मिन् समये एक: एव वाक्यं वदति । सर्वेषु छात्रेषु स: एव यस्य नाम शिक्षक: वदति ।
सर्वेSपि मिलित्वा एव स्वस्य अभ्यासं कुर्वन्ति । शान्तिमन्त्रात् परं प्रश्नसत्रं भवति । यत्र सर्वेषां समस्यानां प्रश्नां च विषये चर्चा अपि भवति । सर्वेSपि संस्कृतं पठित्वा ज्ञात्वा च स्वस्य व्यवहारे आनयन्ति । येन कारणेन तेषाम् अन्तः संस्कार: व्यवहार: कृतज्ञता समयपालनं च आगच्छति । एत्तर्थं जना: उत्तरप्रदेशसंस्कृतसंस्थानं संस्कारदायकं संस्थानम् अपि वदन्ति । अस्य प्रत्यक्षप्रमाणं वयं द्वितीयस्तरस्य संस्कृतभाषाशिक्षणस्य ऑनलाइनकक्षायां दृष्टुं शक्नुमः । प्रत्येकस्मिन् मासे एकं सत्रं प्रचलति । इदं सत्रम् अस्य जुलाईमासस्य चतुर्थदिनाङ्कतः षड्विंशतिदिनाङ्कपर्यन्तं भविष्यति ।
अस्मिन् सत्रे आहत्य पञ्चाशताधिका: छात्रा: पञ्जीकरणं कृतवन्त: । तेषु प्रायशः त्रिंशत् जना: उपस्थिता: भवन्ति।संस्थानस्य प्रशिक्षक: सचिन शर्मा एतेषां प्रशिक्षणं कारयति। वर्गस्य अन्ते परीक्षायाः अनन्तरं प्रमाणपत्रम् अपि प्राप्स्यते । यदि भवन्तः अपि संस्कृतं वक्तुम् इच्छन्ति तर्हि शीघ्रमेव sanskritsambhashan.com अत्र पञ्जीकरणं कुर्वन्तु । पठतु संस्कृतम् , जानातु भारतम् ।