-कुलदीपमैन्दोला, उत्तराखण्ड।
देहरादून: । मुख्यमन्त्रिणा पुष्करसिंहधामीवर्येण मुख्यमन्त्रिण: आवासस्थिते मुख्यसेवकसदने “Modi@20 Dreams Meet” इत्यस्य पुस्तकस्य चर्चायां एवं च विचारगोष्ठ्यां प्रतिभाग: कृत:। पुस्तकमिदं प्रधानमन्त्रिण: श्रीनरेंद्रमोदीवर्यस्य 20 वर्षाणां राजनीतिकजीवनोपरि आधारित: वर्तते।
मुख्यमन्त्रिणा विज्ञापितं यत् प्रधानमन्त्रिण: श्री नरेन्द्रमोदीवर्यस्य प्रधानमन्त्रीपदानन्तरं देशे एका नूतना कार्यसंस्कृति: समागता । अद्य विश्वे भारतस्य मानं, सम्मानं एवं च स्वाभिमानं वर्धमानम् अस्ति । अद्य भारतम् आत्मनिर्भर: संजायते । तै: प्रोक्तं यत् मोदीवर्यस्य नेतृत्वे सर्ववर्गाणां ध्यानं कुर्वन् अन्तिमपंक्तिषु संस्थितान् जनान् समाजस्य मुख्यधारायै संयोक्तुं कार्यं क्रियते।
देशे प्रतिक्षेत्रे तीव्राग्रसरिण्यां COVID19 महामार्यां भारते टीकाकरणस्य महाअभियानं संचालितमभवत् । भारते 192 कोट्यप्यधिका सूच्यौषधि: पारंगत:। भारतस्य सांस्कृतिकपरम्परा सर्वदैव ‘सर्वे भवन्तुः सुखिनः’ इत्यस्ति । कोविडसमये भारतेन अनया भावनया अन्यदेशानां कृते 20कोट्यधिक कोविडवैक्सीन इति प्रदत्ता ।
तै: कथितं यत् प्रधानमंत्रिण: नेतृत्वे देशे विश्वस्य सर्वदीर्घा योजना स्वास्थ्ययोजना ‘आयुष्मानभारतयोजना’ हसंचाल्यमाना अस्ति। प्रधानमंत्री श्री नरेन्द्रमोदीवर्य: येन समर्पणभावनया देशसेवां करैति , तेन आधुनिकभारतस्य शिल्पकार: वक्तुं शक्यते ।
अवसरेस्मिन् राज्यसभासांसद: श्री नरेशबंसल:, विधायक: श्री विनोदचमोली, श्री-उमेशशर्माकाउ, श्रीमती सविताकपूर, श्रीखजान:, श्री बृजभूषणगैरोला, श्री दुर्गेशलाल:, मेयरश्री सुनील-उनियालगामा, भाजपा नेता श्री विनयगोयल: इत्यादिभिस्सह अन्ये सम्मानितजना: उपस्थिता: आसन् ।